SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ उपमितौ द्वि.२-प्र. ॥१३५॥ POSESAUSAUSASSAREX भवितव्यता । ज्ञात्वा तदुचितं कालं, ततश्चेदमभाषत ॥ ११ ॥ आर्यपुत्र! भवन्तं किं, नयामि नगरान्तरम् ? । विकलाक्षनिवासेऽत्र,|| नगरे नास्ति ते धृतिः ॥ १२ ॥ मयोक्तं देवि! यत्तुभ्यं, रोचते तद्विधीयताम् । किमत्र बहुना ? त्वं मे, प्रमाणं सर्वकर्मसु ॥ १३ ॥ ततो जीर्णा मम ज्ञात्वा, गुटिकामन्तवर्तिनीम् । नगरान्तरयानाय, प्रयुक्ता गुटिका तया ॥ १४ ॥ अथोन्मार्गोपदेशस्य, प्रतिजागरणे स्थितम् । पञ्चाक्षपशुसंस्थानं, नामास्ति नगरं परम् ।। १५ ।। तत्र सार्वत्रिपञ्चाशत्कोटीलक्षप्रमाणके । वसन्ति कुलसंघाते, लोकाः पञ्चा- पञ्चाक्षपशुक्षनामकाः ॥ १६ ॥ जलस्थलनभश्चाराः, स्पष्टचैतन्यसंयुताः । संज्ञिनस्तेऽभिधीयन्ते, गर्भजा इति वा बुधैः ॥ १७ ॥ ये पुनस्तत्र वि- संस्थाने द्यन्ते, स्पष्टचैतन्यवर्जिताः । असंज्ञिन इति ख्यातास्ते सम्मूर्च्छनजा जनाः ॥ १८ ॥ ततोऽहं तेषु संजातः, स्पष्टचैतन्यवर्जितः । पञ्चाक्षो वासः नाम विख्यातो, गुटिकायाः प्रभावतः ॥ १९ ॥ रटन्नुञ्चैर्विना कार्य, दर्दुराकारधारकः । केलिप्रियतया तत्र, भार्ययाऽहं विनाटितः ॥२०॥ तत्र च सम्मूछेनजमध्ये रूपैरेवमसंख्येयैर्धमयित्वा ततस्तया। विहितो गर्भजाकारधारकोऽहं महेलया ॥ २१ ॥ ततश्च जलचरेषु वर्त्तमानः-गृहीतो धीवरैस्तत्र, बिभ्राणो मत्स्यरूपताम् । छेदपाकादिभिर्दुःखं, प्रापितोऽहं सहस्रशः ॥ २२ ॥ तथा चतुष्पदस्थलचरेषु वर्त्तमानस्य-शशसूकरसारङ्गरूपमाबिभ्रतो मम । व्याधैर्भित्त्वा शरैर्गात्रं, कृता नाना विकतनाः ॥ २३ ॥ तथा भुजपरिसोरःपरिसपेषु वर्त्तमानेन-गोधाहिनकुलादीनां, रूपं धारयता चिरम् । अन्योऽन्यभक्षणाद् दुःखं, प्राप्तं क्रूरतया मया ॥ २४ ॥ तथा-काकोलूकादिरूपाणां, पक्षिणां मध्यचारिणाम् । संख्यातीतानि दुःखानि, सोढानि सुचिरं मया ॥ २५ ॥ असंख्यजनसङ्कीर्णे, तदेवं तत्र पत्तने । जलस्थलनभश्चारी, संजातोऽहं कुले कुले ॥ २६ ॥ अन्यच्च तस्मिन् पञ्चाक्षपशुसंस्थाने नगरे–सप्ताष्टवारा रूपाणि, नैरन्तर्येण कारितः । ॥१३५॥ नीतस्ततोऽन्यस्थानेषु, तत्रानीतः पुनस्तया ॥ २७ ॥ एवं च स्थिते-शेषेषु सर्वस्थानेषु, गत्वा गत्वाऽन्तराऽन्तरा । मया तत्र पुरेऽनन्ताः, Jain Education inithilia For Private & Personel Use Only Plainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy