SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ उपमितौ द्वि.२-प्र. ॥१३५॥ POSESAUSAUSASSAREX भवितव्यता । ज्ञात्वा तदुचितं कालं, ततश्चेदमभाषत ॥ ११ ॥ आर्यपुत्र! भवन्तं किं, नयामि नगरान्तरम् ? । विकलाक्षनिवासेऽत्र,|| नगरे नास्ति ते धृतिः ॥ १२ ॥ मयोक्तं देवि! यत्तुभ्यं, रोचते तद्विधीयताम् । किमत्र बहुना ? त्वं मे, प्रमाणं सर्वकर्मसु ॥ १३ ॥ ततो जीर्णा मम ज्ञात्वा, गुटिकामन्तवर्तिनीम् । नगरान्तरयानाय, प्रयुक्ता गुटिका तया ॥ १४ ॥ अथोन्मार्गोपदेशस्य, प्रतिजागरणे स्थितम् । पञ्चाक्षपशुसंस्थानं, नामास्ति नगरं परम् ।। १५ ।। तत्र सार्वत्रिपञ्चाशत्कोटीलक्षप्रमाणके । वसन्ति कुलसंघाते, लोकाः पञ्चा- पञ्चाक्षपशुक्षनामकाः ॥ १६ ॥ जलस्थलनभश्चाराः, स्पष्टचैतन्यसंयुताः । संज्ञिनस्तेऽभिधीयन्ते, गर्भजा इति वा बुधैः ॥ १७ ॥ ये पुनस्तत्र वि- संस्थाने द्यन्ते, स्पष्टचैतन्यवर्जिताः । असंज्ञिन इति ख्यातास्ते सम्मूर्च्छनजा जनाः ॥ १८ ॥ ततोऽहं तेषु संजातः, स्पष्टचैतन्यवर्जितः । पञ्चाक्षो वासः नाम विख्यातो, गुटिकायाः प्रभावतः ॥ १९ ॥ रटन्नुञ्चैर्विना कार्य, दर्दुराकारधारकः । केलिप्रियतया तत्र, भार्ययाऽहं विनाटितः ॥२०॥ तत्र च सम्मूछेनजमध्ये रूपैरेवमसंख्येयैर्धमयित्वा ततस्तया। विहितो गर्भजाकारधारकोऽहं महेलया ॥ २१ ॥ ततश्च जलचरेषु वर्त्तमानः-गृहीतो धीवरैस्तत्र, बिभ्राणो मत्स्यरूपताम् । छेदपाकादिभिर्दुःखं, प्रापितोऽहं सहस्रशः ॥ २२ ॥ तथा चतुष्पदस्थलचरेषु वर्त्तमानस्य-शशसूकरसारङ्गरूपमाबिभ्रतो मम । व्याधैर्भित्त्वा शरैर्गात्रं, कृता नाना विकतनाः ॥ २३ ॥ तथा भुजपरिसोरःपरिसपेषु वर्त्तमानेन-गोधाहिनकुलादीनां, रूपं धारयता चिरम् । अन्योऽन्यभक्षणाद् दुःखं, प्राप्तं क्रूरतया मया ॥ २४ ॥ तथा-काकोलूकादिरूपाणां, पक्षिणां मध्यचारिणाम् । संख्यातीतानि दुःखानि, सोढानि सुचिरं मया ॥ २५ ॥ असंख्यजनसङ्कीर्णे, तदेवं तत्र पत्तने । जलस्थलनभश्चारी, संजातोऽहं कुले कुले ॥ २६ ॥ अन्यच्च तस्मिन् पञ्चाक्षपशुसंस्थाने नगरे–सप्ताष्टवारा रूपाणि, नैरन्तर्येण कारितः । ॥१३५॥ नीतस्ततोऽन्यस्थानेषु, तत्रानीतः पुनस्तया ॥ २७ ॥ एवं च स्थिते-शेषेषु सर्वस्थानेषु, गत्वा गत्वाऽन्तराऽन्तरा । मया तत्र पुरेऽनन्ताः, Jain Education inithilia For Private & Personel Use Only Plainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy