SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ उपमितौ द्वि. २ प्र. ॥ १३३ ॥ उ. भ. १२ Jain Education वातः संवर्त्तकवातो घनवातस्तनुवातः शुद्धवात इत्यादिभिरभिधानैः समुद्धृतानि तत्र मे शस्त्राभिघातनिरोधादीनि नानादुःखानि, विनाटितस्तत्रापि सूक्ष्मबादरपर्याप्तकापर्याप्तकाकाररूपतया घूर्णमानोऽसंख्येयं कालं भवितव्यतया, ततस्तदवसाने जाते पर्यन्तगुटिकाजरणे दत्वाऽपरां गुटिकां पुनर्नीतोऽहं प्रथमपाटके भवितव्यतया, स्थितस्तत्र पुनरनन्तं कालं ततः पुनरपरापरगुटिकाप्रयोगेणैव प्रापितो द्वितीयादिपाटकेषु, स्थितचैकैकस्मिन्नसंख्येयं कालं, ततश्चानेन प्रकारेण तस्मिन्नेकाक्षनिवासे नगरे कारितोऽहमनन्तवाराः समस्तपाटकपर्यटनविडम्बनं तीव्रमोहोदयात्यन्ताबोधयोः समक्षं भवितव्यतया, अन्यदा मनाक् प्रसन्नचित्तयाऽभिहितं - यथाऽऽर्यपुत्र ! स्थितो भूयांसं कालं त्वमत्र नगरे, ततोऽपनयामि भवतः स्थानाजीर्ण, नयामि भवन्तं नगरान्तरे, मयोक्तम् — यदाज्ञापयति देवी, तत्र प्रयुक्ता गुटिका भवितव्यतया, इतश्चास्ति विकलाक्षनिवासं नाम नगरं तत्र च त्रयः प्रधानपाटका विद्यन्ते, तस्य नगरस्य परिपालकः कर्म्मपरिणाममहाराजनियुक्त एवोन्मार्गोपदेशो नाम महत्तमः, तस्य च माया नाम गृहिणी, ततोऽहं गुटिकामाहात्म्येन प्राप्तस्तत्र प्रथमे पाटके, तस्मिंश्च सप्तकुलकोटिलक्षवर्त्तिनोऽसंख्येया द्विहृषीकाभिधानाः कुलपुत्रकाः प्रतिवसन्ति, ततोऽहमपि संपन्नस्तेषां मध्ये द्विहृषीक:, ततोऽपगता मे सा सुप्तमत्तमूर्च्छितमृतरूपता, जातो मनागभिव्यक्तचैतन्यः, ततश्च — कृतोऽहं गुटिकादानद्वारेणैव ततस्तया । कृमिरूपोऽशुचिस्थाने, महापापः | स्वभार्यया ॥ १ ॥ मूत्राले जम्बालपूरिते जठरे स्थितम् । मां पश्यन्ती विशालाक्षी, ततः सा परितुष्यति ॥ २ ॥ कदाचित्सारमेयादिदुर्गन्धित्रणकोटरे । मामन्यकृमिजालेन, संयुतं वीक्ष्य मोदते || ३ || वर्चोऽपघसराद्येषु, लोलमानं सुदुःखितम् । मां दृष्ट्वा कृमिभावेन, तुष्टाऽभूद्भवितव्यता ॥ ४ ॥ जलूकाभावमापाद्य गुटिकादानतस्तथा । ममेत्थं चाकरोद्दुःखं, हसन्ती सह मायया ॥ ५ ॥ माये ! पश्य For Private & Personal Use Only विकलाक्षपाटके वासः | ॥ १३३ ॥ jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy