________________
परि पीठबन्धः
॥१३२॥
वाहिते तथाविधदुःखैरनन्तकाले जीर्णायां पर्यवसानकालदत्तायां गुटिकायां दत्ता भवितव्यतया ममान्या गुटिका, तत्प्रभावाद्गतोऽहं द्विती-ICTपृथ्वीतायपाटके, तत्र पार्थिवसंज्ञया लोकाः प्रतिवसन्ति, ततोऽहमपि तेषां मध्ये संपन्नः पार्थिवः, विडम्बितस्तत्र भवितव्यतयाऽपरापरगुटिका- द्यवाप्तिः दानद्वारेण सूक्ष्मबादरपर्याप्तकापर्याप्तकरूपतया कृष्णनीलश्वेतपीतलोहितवर्णादिरूपतया सिकतोपललवणहरितालमनःशिला जनशुद्धपृथिव्या-| द्याकारतया चासंख्येयं कालं, तितिक्षितानि च तत्र पाटके वसता मया भेदनदलनचूर्णनखण्डनदहनादीनि दुःखानि, ततः पर्यन्तगुटिकाजरणावसाने दत्ता भवितव्यतया ममान्या गुटिका, गतोऽहं तन्माहात्म्येन तृतीये पाटके, तत्र चाप्याभिधानाः कुटुम्बिनः प्रतिवसन्ति, ततो ममापि तत्र गतस्य संपन्नमाप्यरूपं, विगोपितस्तत्राप्यहं जीर्णायां जीर्णायामपरापरां गुटिकां दत्त्वा रूपान्तरं संपादयन्त्या भवितव्यतया असंख्येयमेव कालं, तथाहि-कृतोऽहमवश्यायहिममहिकाहरतनुशुद्धोदकाद्यनेकभेदरूपो रूपरसगन्धस्पर्शभेदेन विचित्राकारः, तथा ! | सोढानि च तत्र पाटके वर्तमानेन मया शीतोष्णक्षारक्षत्राद्यनेकशस्त्रसंपाद्यानि नानादुःखानि, ततस्तत्कालपर्यन्ते जीर्णायामन्यगुटिकायां दत्ता ममापरा गुटिका भवितव्यतया, गतोऽहं तत्तेजसा चतुर्थे पाटके, तत्राप्यसंख्येयास्तेजस्कायनामानो ब्राह्मणाः प्रतिवसन्ति, ततोऽहमपि तेषां मध्ये भास्वरो वर्णेन उष्णः स्पर्शेन दाहात्मकः कायेन शुचिरूपः स्थानेन संपन्नस्तेजस्कायो ब्राह्मणः, प्रवृत्तश्च मम तत्र वसतो ज्वालाऽङ्गारमुर्मुरार्चिरलातशुद्धाग्निविद्युदुल्काशनिप्रभृतयो व्यपदेशाः, जातानि विध्यापनादितो नानादुःखानि, स्थितः सूक्ष्मबादरपर्याप्तकापर्याप्तकरूपतया विवर्त्तमानोऽसंख्येयं कालं, दत्ता च तदन्ते ममापरा गुटिका पयर्न्तगुटिकाजरणावसाने भवितव्यतया, गतोऽहं तदुपयोगेन पञ्चमपाटके, तत्राप्यसंख्येया वायवीयाभिधानाः क्षत्रियाः प्रतिवसन्ति, ततोऽहमपि तत्र गतो ज्ञातः स्पर्शेन अलक्ष्यश्चक्षुष्मता
॥१३२। रूपेण पताकाकारः संस्थानेन संजातो वायवीयः क्षत्रियः, आहूतश्च तत्र वर्तमानोऽहमुत्कलिकावातो मण्डलिकाबातो गुञ्जावातो झञ्झा
Jain Education
For Private
Personel Use Only