SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ बादरतावाप्तिः उपमितौखभावं आत्मीयसामर्थ्यप्रभवैः परमाणुभिर्निष्पादिताः सर्वार्थकारिण्य एकभववेद्यसंज्ञाः प्रधानगुटिकाः समर्पिता भवितव्यतायाः, सा पीठबन्धः चाभिहिता तेन-यथा भद्रे! समस्तलोकव्यापारकरणोद्यता त्वं श्रान्ताऽसि समस्तलोकानां क्षणे क्षणे नानाविधसुखदुःखादिकार्याणि |संपादयन्ती, ततो गृहाणामूर्गुटिकाः, ततस्त्वया तासामेकैकस्य सत्त्वस्य जीर्णायां जीयामेकैकस्यां गुटिकायामन्या दातव्या, ततः संपा॥१३१॥ दयन्येताः स्वयमेव विविधमप्येकत्र जन्मवासके वसत्सु प्रत्येकं सत्त्वेषु तवेष्टं सर्वं प्रयोजनमिति भविष्यति ते निराकुलता, ततः प्रतिपन्नं | भवितव्यतया तद्राजशासनं, विधत्ते च सकलकालं समस्तसत्त्वानां तथैव सा तं गुटिकाप्रयोगं, ततोऽहं यदा तत्रासंव्यवहारनगरेऽभूवं तदा मम जीर्णायां जीर्णायामपरां सा गुटिकां दत्तवती, केवलं सूक्ष्ममेव मे रूपमेकाकारं सर्वदा तत्प्रयोगेण विहितवती, तत्र पुनरेकाक्षनिवासनगरे समागता तीबमोहोदयात्यन्ताबोधयोः कुतूहलमिव दर्शयन्ती तेन गुटिकाप्रयोगेण ममानेकाकारं स्वरूपं प्रकटयति स्म, यतः कृतोऽहं तत्र पाटके वर्तमानः क्वचिदवसरे सूक्ष्मरूपः तत्रापि कचित्पर्याप्तकरूपः तथा क्वचिदवसरे विहितोऽहं बादराकारः तत्रापि | कचित्पर्याप्तकरूपः कचिदपर्याप्तकरूपः तथा बादरः सन् कचिदपवरकवर्ती कचित्प्रत्येकचारी अत्रापि कचिदङ्कुराकारधारकः कचिस्कन्दरूपः कचिन्मूलभाजी कचित्त्वकचारी कचित् स्कन्धवर्ती क्वचिच्छाखाचरः क्वचित्प्रशाखागतः कचित्प्रवालसंचरिष्णुः कचि-* त्पत्राकारः कचित्पुष्पसंस्थः कचित्कलात्मकः कचिद्वीजस्वभावः तथा कचिन्मूलबीजः क्वचिदग्रवीजः क्वचित्पर्वबीजः कचित् स्कन्धबीजः कचिद्वीजरुहः कचित्सम्मूर्छनजः तथा कचिद् वृक्षाकारः कचिद्गल्मरूपः क्वचिल्लतात्मकः क्वचिद्बल्लीस्वभावः कचिद्धरितात्मक इति, तथारूपेण च वर्तमान मामुपलभ्यान्यनामनगरसम्बन्धिनो लोकाः कम्पमानं भवितव्यतायाः समक्षमेव छिन्दन्ति भिन्दन्ति दलन्ति पिंपन्ति मोटयन्ति लुञ्चयन्ति तक्ष्णुवन्ति दहन्ति नानाकदर्थनाभिः कदर्थयन्ति, तथापि भवितव्यता तत्रोपेक्षां कुरुते, ततोऽति-| ॥१३१॥ Jain Education A nal For Private & Personal Use Only nelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy