SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ बादरतावाप्तिः उपमितौलतास्तदेकाक्षनिवासं नगरं, तत्र च नगरे महान्तः पञ्च पाटका विद्यन्ते, ततोऽहमेकं पाटकं कराप्रेण दर्शयता तीव्रमोहोदयेनाभिहितःपीठबन्धःभद्र संसारिजीव! तिष्ठ त्वमत्र पाटके, यतोऽयं पाटकोऽसंव्यवहारनगरेण बहुतरं तुल्यो वर्त्तते, ततो भविष्यत्यत्र तिष्ठतो धृतिरिति, त थाहि-यथा तत्रासंव्यवहारनगरे गोलकाभिधानानां प्रासादानां मध्यवर्त्तिनो ये निगोदाभिधाना अपवरकास्तेषु यथा लोकाः प्रत्येकमनन्ताः ॥१३०॥ संपिण्डिताः स्नेहानुबन्धेन प्रतिवसन्ति अत्रापि पाटके बहुतमा लोकास्तथैव प्रतिवसन्ति, केवलमसंव्यवहारनगरसम्बन्धिनो न कचिल्लोकव्यवहारेऽवतरन्तीति असंव्यावहारिका उच्यन्ते, ते हि यदि परं यूयमिव भगवत्या लोकस्थितेरादेशेन सकृदेवान्यस्थानेषु गच्छन्ति, | नान्यथा, एते पुनरस्य पाटकस्य संबन्धिनो लोकाः कुर्वन्ति लोकव्यवहारं समाचरन्ति शेषस्थानेषु गमागमं तेन सांत्र्यवहारिका इत्यभिधीयन्ते, तथा तेषामसंव्यवहारनगरसंबन्धिनामनादिवनस्पतय इति सर्वेषामपि सामान्याभिधानं एतत्पाटकसम्बन्धिनां तु वनस्पतय इत्येतावान् विशेषः, तथा प्रत्येकचारिणोऽपि प्रासादापवरकन्यायरहिता मुत्कलचारेणात्र विद्यन्ते तेऽसंख्येया लोकाः, ततस्तिष्ठ त्वमत्र, पूर्वपरिचितनगरसमान एवायं पाटकस्तवेति, ततो मयोक्तम्-यदाज्ञापयति देवः, ततः स्थापितोऽहमेकस्मिन्नपवरके, शेषलोकास्तु केनचिन्मदीयविधानेनैव स्थापितास्तत्रैव पाटके, केचिन्मुत्कलचारेण, केचित्पुनर्नीताः पाटकान्तरेष्विति, ततोऽहं तत्र साधारणशरीरनान्नि भद्रे ! अपवरके पूर्वोक्तस्थित्यैव सुप्त इव मत्त इव मूर्च्छित इव मृत इवानन्तलोकैः संपिण्डितैस्तैः समकमुच्छसन् समकं निःश्वसन सम| कमाहारयन् समकं निरियन स्थितोऽनन्तकालमिति, अन्यदा कर्मपरिणाममहाराजादेशेनैवानुमतो महत्तमबलाधिकृताभ्यां निःसारितस्ततोऽपवरकन्यायाद् भवितव्यतया, धारितस्तत्रैव पाटके पुनरसंख्यकालं प्रत्येकचारितयेति, इतश्च पूर्वमेव कर्मपरिणाममहाराजेन परिपु- च्छय लोकस्थिति समालोच्य सह कालपरिणत्या ज्ञापयित्वा नियतियदृच्छादीनां अनुमते भवितव्यतायाः अपेक्ष्य विचित्राकारं लोक-| ॥१३०॥ Jain Educat onal For Private & Personel Use Only jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy