SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ भवितव्यतामहिमा उपमिती रिजीवपत्नी भवितव्यता येऽत्र प्रस्थापनोचिता लोकास्तेषां स्वरूपमिति, अतस्तामेवाहूय पृच्छामि, ततः कथितस्तीबमोहोदयाय तेन स्वापीठबन्धःभिप्रायः, सुन्दरमेतदिति बहुमतं तस्यापि तस्या आकारणं, ततः प्रहितः पुरुषः, समाहूता भवितव्यता, समागता वेगेन, प्रवेशिता प्र- तिहार्या, महाप्रभावेयं सर्वापि स्त्री किल देवतेति विचिन्त्य कृतं तस्याः पादपतनं वाचिकं महत्तमबलाधिकृताभ्याम् , अभिनन्दितौ तौ ॥१२९॥ तयाऽऽशीर्वादेन, दापितमासनं, उपविष्टा भवितव्यता, ततो बलाधिकृताभिमुखं महत्तमेन चालिता भ्रलता, ततस्तेन कथयितुमारब्धस्तस्यै तन्नियोगव्यतिकरः, ततो हसितं तया, स प्राह-भद्रे! किमेतत् ?, भवितव्यताऽऽह-न किञ्चित् , बलाधिकृतेनोक्तम्-तत्किमकाण्डे हसितम?, भवितव्यताऽऽह-अत एव, यतो न किञ्चिदिदम् , बलाधिकृतेनोक्तम्-कथम् ?, भवितव्यताऽऽह-सत्यमत्यन्ताबोधोऽसि, यस्त्वमेनमपि व्यतिकरं मह्यं कथयसि, कृतोद्योगाऽहमेवंविधेषु व्यतिकरेषु, लक्षयाम्यनन्तकालभाविनोऽपि सर्वव्यतिकरानहं, किं पुनः साम्प्रतिकान् ?, अतो निष्प्रयोजनत्वान्न किश्चिदेतत्त्वदीयकथनं ममेति, अत्यन्ताबोधः प्राह-सत्यमिदम् , विस्मृतं मे तावकं माहात्म्यं, सोढव्योऽयमेको ममापराधो भवत्या, अन्यश-प्रस्थापय त्वमेव येऽत्र प्रस्थापनोचिता लोकाः, किं नो व्यापारेण ?, भवितव्यतयोक्तम्-एकस्तावदेष एव मदीयो भर्ता प्रस्थापनयोग्यः, तथाऽन्ये च ये तज्जातीयाः, बलाधिकृतेनोक्तम्-त्वमेव जानीये, तत्किमत्रोक्तेन ?, ततो निर्गता भवितव्यता, आगता मम समीपे कथितो व्यतिकरः, मयोक्तम्-यद्देवी जानीते, ततः समुच्चलितोऽहमन्ये च मज्जातीयास्तन्नियोगाभिप्रेतसङ्ख्यानुसारेण, उक्तौ च भवितव्यतया महत्तमबलाधिकृतौ यदुत-मया युवाभ्यां चामीभिः सह यातव्यं, यतो भर्तृदेवता नारीति न मोक्तव्यो मया संसारिजीवो, यतश्चास्ति युवयोरपि प्रतिजागरणीयमेकाक्षनिवासं नाम नगरं, तत्रामीभिर्लोकः प्रथमं गन्तव्यं, अतो युज्यते युवाभ्यां ॐासहवामीषां तत्रासितुं, नान्यथा, ततो यद्भवती जानीत इत्यभिधाय प्रतिपन्नं तद्वचनं महत्तमबलाधिकृताभ्यां, प्रवृत्ताः सर्वेऽपि समाग Jain Educatio n al For Private & Personal Use Only www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy