SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ भवितव्यतामहिमा उपमिती रिजीवपत्नी भवितव्यता येऽत्र प्रस्थापनोचिता लोकास्तेषां स्वरूपमिति, अतस्तामेवाहूय पृच्छामि, ततः कथितस्तीबमोहोदयाय तेन स्वापीठबन्धःभिप्रायः, सुन्दरमेतदिति बहुमतं तस्यापि तस्या आकारणं, ततः प्रहितः पुरुषः, समाहूता भवितव्यता, समागता वेगेन, प्रवेशिता प्र- तिहार्या, महाप्रभावेयं सर्वापि स्त्री किल देवतेति विचिन्त्य कृतं तस्याः पादपतनं वाचिकं महत्तमबलाधिकृताभ्याम् , अभिनन्दितौ तौ ॥१२९॥ तयाऽऽशीर्वादेन, दापितमासनं, उपविष्टा भवितव्यता, ततो बलाधिकृताभिमुखं महत्तमेन चालिता भ्रलता, ततस्तेन कथयितुमारब्धस्तस्यै तन्नियोगव्यतिकरः, ततो हसितं तया, स प्राह-भद्रे! किमेतत् ?, भवितव्यताऽऽह-न किञ्चित् , बलाधिकृतेनोक्तम्-तत्किमकाण्डे हसितम?, भवितव्यताऽऽह-अत एव, यतो न किञ्चिदिदम् , बलाधिकृतेनोक्तम्-कथम् ?, भवितव्यताऽऽह-सत्यमत्यन्ताबोधोऽसि, यस्त्वमेनमपि व्यतिकरं मह्यं कथयसि, कृतोद्योगाऽहमेवंविधेषु व्यतिकरेषु, लक्षयाम्यनन्तकालभाविनोऽपि सर्वव्यतिकरानहं, किं पुनः साम्प्रतिकान् ?, अतो निष्प्रयोजनत्वान्न किश्चिदेतत्त्वदीयकथनं ममेति, अत्यन्ताबोधः प्राह-सत्यमिदम् , विस्मृतं मे तावकं माहात्म्यं, सोढव्योऽयमेको ममापराधो भवत्या, अन्यश-प्रस्थापय त्वमेव येऽत्र प्रस्थापनोचिता लोकाः, किं नो व्यापारेण ?, भवितव्यतयोक्तम्-एकस्तावदेष एव मदीयो भर्ता प्रस्थापनयोग्यः, तथाऽन्ये च ये तज्जातीयाः, बलाधिकृतेनोक्तम्-त्वमेव जानीये, तत्किमत्रोक्तेन ?, ततो निर्गता भवितव्यता, आगता मम समीपे कथितो व्यतिकरः, मयोक्तम्-यद्देवी जानीते, ततः समुच्चलितोऽहमन्ये च मज्जातीयास्तन्नियोगाभिप्रेतसङ्ख्यानुसारेण, उक्तौ च भवितव्यतया महत्तमबलाधिकृतौ यदुत-मया युवाभ्यां चामीभिः सह यातव्यं, यतो भर्तृदेवता नारीति न मोक्तव्यो मया संसारिजीवो, यतश्चास्ति युवयोरपि प्रतिजागरणीयमेकाक्षनिवासं नाम नगरं, तत्रामीभिर्लोकः प्रथमं गन्तव्यं, अतो युज्यते युवाभ्यां ॐासहवामीषां तत्रासितुं, नान्यथा, ततो यद्भवती जानीत इत्यभिधाय प्रतिपन्नं तद्वचनं महत्तमबलाधिकृताभ्यां, प्रवृत्ताः सर्वेऽपि समाग Jain Educatio n al For Private & Personal Use Only www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy