SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः ॥ १२७ ॥ Jain Education चितेन ? ज्ञाप्यतामेष व्यतिकरो नागरलोकानां दीयतां पटहकः क्रियतां घोषणा, यथा – 'देवकर्म्मपरिणामादेशेन कियद्भिरपि लोकैरितः स्थानात्तदीयशेषस्थानेषु गन्तव्यमतो येषामस्ति भवतां तत्र गमनोत्साहः ते स्वयमेव प्रवर्त्तन्तामिति, ततोऽनुकूलतया शेषस्थानानामुत्सङ्कलिता वयमिति च मत्वा भूयांसो लोकाः स्वयमेव प्रवर्त्तिष्यन्ते, ततो विशेषतो नेयलोकसंख्यां दृष्ट्वा पृष्ट्वा च तन्नियोगं तेषां मध्याद्येऽस्मभ्यं रोचि - ष्यन्ते तानेव तावत्संख्यान् प्रहिष्याम इति, महत्तमेनोक्तम् — भद्र ! स्वयमपि परिहितस्य भक्तिं न जानीषे त्वं यतोऽमीभिर्लोकैर्न कदाचिद्दृष्टं स्थानान्तरमतो न जानन्ति तत्स्वरूपमपि किम्पुनस्तस्यानुकूलताम् ?, अनादिप्रवाहेण चात्रैव वसन्तो रतिमुपगताः खल्वेते, तथाऽनादिसम्बन्धे| नैव रूढस्नेहाः परस्परं नेच्छन्ति वियोगं, तथाहि पश्यतु भद्रो येऽत्र लोका एकैकस्मिन्नपवर के वर्त्तन्ते तेऽतिस्निग्धतयाऽऽत्मनो गाढं सम्बन्धमुपदर्शयन्तः समकमुच्छ्रसन्ति समकं निःश्वसन्ति समकमाहारयन्ति समकं निर्धारयन्ति एकस्मिन्प्रियमाणे सर्वे म्रियन्ते एकस्मिन् जीवति सर्वेऽपि जीवन्ति, तत्कथमेते स्थानान्तरगुणज्ञानरहिता एवंविधप्रेमबद्धात्मानश्च स्वयमेव प्रवर्त्तिष्यन्ते ?, तस्मादपरः कश्चित्प्रस्थानोचितलोकपरिज्ञानोपायश्चिन्त्यतां भवतेति, ततः पर्याकुलीभूतो बलाधिकृतः किमत्र विधेयमिति, इतश्चास्ति भवितव्यता नाम मम भार्या, सा च शाटिकाबद्धः सुभटो वर्त्तते, यतोऽहं नाममात्रेणैव तस्या भर्तेति प्रसिद्धः, परमार्थतः पुनः सैव भगवती मदीयगृहस्य शेषलोकगृहाणां च सम्वन्धिनीं समस्तामपि कर्त्तव्यतां तत्रयति, यतः सा अचिन्त्यमाहात्म्यतया स्वयमभिलषितमर्थं घटयन्ती नापेक्षतेऽन्यसम्बन्धिनं पुरुषकारं सहायतया न विचारयति पुरुषानुकूलप्रतिकूलभावं न गणयत्यवसरं न निरूपयत्यापद्गतं न निवार्यते सुरगुरुणाऽपि बुद्धिविभवेन न प्रतिस्खल्यते विबुधपतिनाऽपि पराक्रमेण नोपलभ्यते योगिभिरपि तस्याः प्रतिविधानोपायः अत्यन्तमसम्भावनीयमप्यर्थं सा भगवती स्वकरतलवर्त्तिनमिव लीलया संपादयति लक्षयति च प्रत्येकं समस्तलोकानां यस्य यदा यत्र यथा यावद्यच्च प्रयोजनं कर्त्तव्यं ततस्तस्य तदा For Private & Personal Use Only अव्यवहारान्निर्गमः ॥ १२७ ॥ ainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy