________________
उपमितौ पीठबन्धः
अव्यवहारान्निर्गमः
॥१२६॥
|धिकारो लोकस्थित्या, अहं च यद्यपि देवपादोपजीवी तथापि विशेषतो लोकस्थितेः प्रतिबद्धः, अत एव तडारण तन्नियोग इति प्रसिद्धोऽहं लोके, मोचिताश्च कियन्तोऽपि साम्प्रतं सदागमेन लोकाः, ततोऽहं भगवत्या लोकस्थित्या युष्मन्मूलं तावतां लोकानामानयनायेह प्रहितः' | इति, एतदाकर्ण्य भवन्तः प्रमाणं, ततो यदाज्ञापयति भगवतीति प्रतिपन्नं तच्छासनं महत्तमेन बलाधिकृतेन च, ततोऽपि महत्तमेनोक्तम्भद्र ! तन्नियोग! तावदुत्तिष्ठ दर्शयामो भद्रस्यासंव्यवहारनगरलोकप्रमाणं येन गतः सन् निवेदयसि त्वं तद्देवपादेभ्यः कालान्तरेऽपि येन न भवति तेषां लोकविरलीभवनचिन्ता, तन्नियोगेनोक्तम्-यदाज्ञापयत्यार्यः, ततः समुत्थितास्त्रयोऽपि नगरं निरीक्षितुं, दर्शिताः समुच्छ्रितकरेण पर्यटता तीब्रमोहोदयेनासंख्येया गोलकनामानः प्रासादास्तन्नियोगस्य, तन्मध्यवर्तिनश्वासंख्येया एव दर्शिता निगोदनामानो| ऽपवरकाः, ते च विद्वद्भिः साधारणशरीराणीत्यभिधीयन्ते, तदन्तर्भूताश्च दर्शिता अनन्ता लोकाः, ततो विस्मितस्तन्नियोगः, उक्तो महत्तमेन-भद्र ! दृष्टं नगरप्रमाणं ?, स प्राह-सुष्ट दृष्टं, ततः सहस्ततालमट्टहासेन विहस्य तीव्रमोहोदयेनोक्तम्-पश्यत विमूढतां सदाग| मस्य, स हि किल सुगृहीतनामधेयस्य देवस्य कर्मपरिणामस्य संबन्धिनं लोकं निर्वाहयितुमभिलषति न जानीते वराकस्तत्प्रमाणं, तथा
हि-अत्र नगरे तावदसंख्येयाः प्रासादाः, तेषु प्रत्येकमसंख्येया एवापवरकाः, तेषु चैकैकस्मिन्ननन्तलोकाः प्रतिवसन्ति, अनादिरूढश्वास्य | सदागमस्यायं लोकनिर्वाहणाग्रहरूपो ग्रहः तथापि तेनेयता कालेन निर्वाहयता यावन्तोऽत्रैकस्मिन्नपवरके लोकास्तेषामनन्तभागमात्रं नि|वाहितं, ततः केयं देवपादानां लोकविरलीभवनचिन्ता?, तन्नियोगेनोक्तम्-सत्यमेतद्, अस्त्येव चायं देवस्याप्यवष्टम्भः, विशेषतः पुनयुष्मद्वचनमेतदहं कथयिष्यामि, अन्यच्चोक्तं भगवत्या लोकस्थित्या यथा-न भवता कालक्षेपः कार्यः तत्संपाद्यतां शीघ्रं तदादेश इति, ततः स्थितावुत्सारके महत्तमबलाधिकृतौ, महत्तमेनोक्तम्-केऽत्र प्रस्थापनायोग्या इति?, अत्यन्ताबोधः प्राह-आर्य ! किमत्र बहुनाऽऽलो
HTHHTH
॥१२६॥
Jain Educatio
n
al
For Private & Personel Use Only
Mainelibrary.org