SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः अव्यवहारान्निर्गमः ॥१२६॥ |धिकारो लोकस्थित्या, अहं च यद्यपि देवपादोपजीवी तथापि विशेषतो लोकस्थितेः प्रतिबद्धः, अत एव तडारण तन्नियोग इति प्रसिद्धोऽहं लोके, मोचिताश्च कियन्तोऽपि साम्प्रतं सदागमेन लोकाः, ततोऽहं भगवत्या लोकस्थित्या युष्मन्मूलं तावतां लोकानामानयनायेह प्रहितः' | इति, एतदाकर्ण्य भवन्तः प्रमाणं, ततो यदाज्ञापयति भगवतीति प्रतिपन्नं तच्छासनं महत्तमेन बलाधिकृतेन च, ततोऽपि महत्तमेनोक्तम्भद्र ! तन्नियोग! तावदुत्तिष्ठ दर्शयामो भद्रस्यासंव्यवहारनगरलोकप्रमाणं येन गतः सन् निवेदयसि त्वं तद्देवपादेभ्यः कालान्तरेऽपि येन न भवति तेषां लोकविरलीभवनचिन्ता, तन्नियोगेनोक्तम्-यदाज्ञापयत्यार्यः, ततः समुत्थितास्त्रयोऽपि नगरं निरीक्षितुं, दर्शिताः समुच्छ्रितकरेण पर्यटता तीब्रमोहोदयेनासंख्येया गोलकनामानः प्रासादास्तन्नियोगस्य, तन्मध्यवर्तिनश्वासंख्येया एव दर्शिता निगोदनामानो| ऽपवरकाः, ते च विद्वद्भिः साधारणशरीराणीत्यभिधीयन्ते, तदन्तर्भूताश्च दर्शिता अनन्ता लोकाः, ततो विस्मितस्तन्नियोगः, उक्तो महत्तमेन-भद्र ! दृष्टं नगरप्रमाणं ?, स प्राह-सुष्ट दृष्टं, ततः सहस्ततालमट्टहासेन विहस्य तीव्रमोहोदयेनोक्तम्-पश्यत विमूढतां सदाग| मस्य, स हि किल सुगृहीतनामधेयस्य देवस्य कर्मपरिणामस्य संबन्धिनं लोकं निर्वाहयितुमभिलषति न जानीते वराकस्तत्प्रमाणं, तथा हि-अत्र नगरे तावदसंख्येयाः प्रासादाः, तेषु प्रत्येकमसंख्येया एवापवरकाः, तेषु चैकैकस्मिन्ननन्तलोकाः प्रतिवसन्ति, अनादिरूढश्वास्य | सदागमस्यायं लोकनिर्वाहणाग्रहरूपो ग्रहः तथापि तेनेयता कालेन निर्वाहयता यावन्तोऽत्रैकस्मिन्नपवरके लोकास्तेषामनन्तभागमात्रं नि|वाहितं, ततः केयं देवपादानां लोकविरलीभवनचिन्ता?, तन्नियोगेनोक्तम्-सत्यमेतद्, अस्त्येव चायं देवस्याप्यवष्टम्भः, विशेषतः पुनयुष्मद्वचनमेतदहं कथयिष्यामि, अन्यच्चोक्तं भगवत्या लोकस्थित्या यथा-न भवता कालक्षेपः कार्यः तत्संपाद्यतां शीघ्रं तदादेश इति, ततः स्थितावुत्सारके महत्तमबलाधिकृतौ, महत्तमेनोक्तम्-केऽत्र प्रस्थापनायोग्या इति?, अत्यन्ताबोधः प्राह-आर्य ! किमत्र बहुनाऽऽलो HTHHTH ॥१२६॥ Jain Educatio n al For Private & Personel Use Only Mainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy