SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ अव्यवहारान्निगमः Fasसौ कृतोचिता याची, तन्नियोगेनोक्तमति, तन्मिय उपमितौरपुटमुकुलया विज्ञापितं-देव! एष सुगृहीतनामधेयस्य देवस्य कर्मपरिणामस्य संबन्धी तन्नियोगो नाम दूतो देवदर्शनमभिलषन् प्रतीहा-3 पीठबन्धः४ारभूमौ तिष्ठति, तदेवमवस्थिते देवः प्रमाणमिति, ततो निरीक्षितं तीब्रमोहोदयेन ससंभ्रममत्यन्ताबोधवदनं, स प्राह-शीघ्रं प्रवेशयतु तं | भवती, ततो 'यदाज्ञापयति देव' इत्यभिधाय प्रवेशितः प्रतिहार्या तन्नियोगः, तेनापि सविनयमुपसृत्य प्रणतो महत्तमो बलाधिकृतश्च, ॥१२५॥ अभिनन्दितस्ताभ्यां दापितमासनं उपविष्टोऽसौ कृतोचिता प्रतिपत्तिः, ततो विमुच्यासनं बद्धा करमुकुलं कृत्वा ललाटतटे तीव्रमोहोदयेनोक्तम्-अपि कुशलं देवपादानां महादेव्याः शेषपरिजनस्य च?, तन्नियोगेनोक्तम्-सुष्टु कुशलं, तीव्रमोहोदयेनोक्तम्-अनुग्रहोऽयमस्माकं यदत्र भवतः प्रेषणेनानुस्मृता वयं देवपादैरित्यतः कथय तावदागमनप्रयोजनमिति, तन्नियोगेनोक्तम्-कोऽन्यो भवन्तं विहाय देवपादानामनुग्रहाहः ?, आगमनप्रयोजनं पुनरिदम् –'अस्ति तावद्विदितैव भवतां विशेषेण माननीया प्रष्टव्या सर्वप्रयोजनेषु अलङ्घनीयवाक्या अचिन्त्यमाहात्म्या च भगवती लोकस्थिति म देवपादानां महत्तमभगिनी, तस्याश्च तुष्टैर्देवपादैः सकलकालमेषोऽधिकारो वितीर्णः, यथा।ऽस्ति तावदेषोऽस्माकं सर्वदा परिपन्थी कथञ्चिदुन्मूलयितुमशक्यः सदागमः परमशत्रुः, ततोऽयमस्मदलमभिभूय कचिदन्तराऽन्तरा ल ब्धप्रसरतयाऽस्मदीयमुक्तेर्निस्सारयति कांश्चिल्लोकान् स्थापयति चास्माकमगम्यायां निवृतौ नगर्याम् , एवं च स्थिते विरलीभविष्यत्येष का४ लेन लोकः ततः प्रकटीकरिष्यत्यस्माकमयशस्तन्न सुन्दरमेतत् , अतो भगवति लोकस्थिते! त्वयेदं विधेयम्-अस्ति ममाविचलितरूपमे&ातदेव प्रयोजनमपेक्ष्य संरक्षणीयमसंव्यवहारं नाम नगरं, ततो यावन्तः सदागमेन मोचिताः सन्तो मदीयभुक्तेर्निर्गत्य निर्वृतिनगर्या गIMच्छन्ति लोकाः तावन्त एव भगवत्या तस्मादसंव्यवहारनगरादानीय मदीयशेषस्थानेषु प्रचारणीयाः, ततः प्रचुरलोकतया समस्तस्थानानां सदागममोचितानां न कश्चिद्वार्तामपि प्रश्नयिष्यति, यतो न भवत्यस्माकं छायाम्लानिरिति, ततो महाप्रसाद इति कृत्वा प्रतिपन्नः सोऽ ॥ १२५॥ Jain Educat i onal For Private & Personel Use Only M ainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy