________________
29-
09
उपमितौ पीठबन्धः
॥१२४॥
व्यतिकरं भगवन्तः सदागमनाथाः, किमाख्यातेन?, सदागमेनोक्तम्-भद्र! महत्कुतूहलमस्याः, अतस्तदपनोदार्थ कथयतु भवान् , को दोषः ?, संसारिजीवेनोक्तं यदाज्ञापयन्ति नाथाः!, केवलं जनसमक्षमात्मविडम्बना कथयितुं न पारयामि, ततो विविक्तमादिशन्तु नाथा | इति, ततः सदागमेन विलोकिता परिषत् स्थिता गत्वा दूरदेशे, प्रज्ञाविशालाऽप्युत्तिष्ठन्ती त्वमप्याकर्णयस्वेति भणित्वा धारिता सदागमेन, तस्याश्च निकटवर्ती सदागमवचनेनैव भव्यपुरुषोऽपि स्थित एव, ततस्तेषां चतुर्णामपि पुरतः केवलमगृहीतसङ्केतामुद्दिश्य प्रजल्पितोऽसौ संसारिजीसंसारिजीवः अस्तीह लोके आकालप्रतिष्ठमनन्तजनाकुलमसंव्यवहारं नाम नगरं, तत्र सर्वस्मिन्नेव नगरेऽनादिवनस्पतिनामानः कुलपु- | ववृत्तान्त त्रकाः प्रतिवसन्ति, तस्मिंश्चास्यैव कर्मपरिणामस्य महानरेन्द्रस्य संबन्धिनावत्यन्ताबोधतीबमोहोदयनामानौ सकलकालस्थायिनौ बलाधिकृतमहत्तमौ प्रतिवसतः, ताभ्यां चात्यन्ताबोधतीव्रमोहोदयाभ्यां तत्र नगरे यावन्तो लोकास्ते सर्वेऽपि कर्मपरिणाममहाराजादेशेनैव सुप्ता | इव अस्पष्टचैतन्यतया मत्ता इव कार्याकार्यविचारशून्यतया मूर्छिता इव परस्परं लोलीभूततया मृता इव लक्ष्यमाणविशिष्टचेष्टाविकलतया | | निगोदाभिधानेष्वपवरकेषु निक्षिप्य संपिण्डिताः सकलकालं धार्यन्ते, अत एव च ते लोका गाढसम्मूढतया न किञ्चिच्चेतयन्ति न भापन्ते न विशिष्टं चेष्टन्ते नापि ते छिद्यन्ते न भिद्यन्ते न दह्यन्ते न प्लाव्यन्ते न कुदृश्यन्ते न प्रतिघातमापद्यन्ते न व्यक्तां वेदना
मनुभवन्ति नाप्यन्यं कञ्चन लोकव्यवहारं कुर्वन्ति, इदमेव च कारणमुररीकृत्य तन्नगरमसंव्यवहारमिति नाम्ना गीयते, तत्र नगरे संसा- अव्यवहा& रिजीवनामाहं वास्तव्यः कुटुम्बिकोऽभूवं, गतश्च तत्र वसतो ममानन्तः कालः, अन्यदा दत्ताऽऽस्थाने तीव्रमोहोदयमहत्तमे तन्निकटवर्तिनि | रान्निर्गमः चात्यन्ताबोधबलाधिकृते प्रविष्टा समुद्रवीचिरिव मौक्तिकनिकरवाहिनी प्रावृटकाललक्ष्मीरिव समुन्नतपयोधरा मलयमेखलेव चन्दनगन्धधा
या॥१२४॥ |रिणी वसन्तश्रीरिव रुचिरपत्रतिलकाभरणा तत्परिणतिर्नाम प्रतीहारी, तया चावनितलन्यस्तजानुहस्तमस्तकया विधाय प्रणामं विरचितक
Jain Education
For Private
Personel Use Only
selibrary.org