SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ -GOALSO उपमितौ पीठबन्धः प्रज्ञाविशालाद्वारा | भव्यपुरुषानयन ॥१२२॥ नतमस्तका । प्रज्ञाविशाला तद्वाक्यमनुतस्थौ कृतादरा ॥ २६ ॥ अथासौ भव्यपुरुषस्तां धात्री प्राप्य सुन्दराम् । ललमानः सुखेनाऽऽस्ते, देववद्दिवि लीलया ॥ २७ ॥ क्रमात्संवर्द्धमानोऽसौ, कल्पपादपसंनिभः । संजातः सर्वलोकानां, लोचनानन्ददायकः ॥ २८ ॥ ये ते सदागमेनोच्चै विनो वर्णिता गुणाः । आविर्भूताः समस्तास्ते, कौमारे तस्य तिष्ठतः ॥ २९ ॥ ततः परिचयं कर्तुं, तया प्रज्ञाविशालया । नीतः सदागमाभ्यर्णे, सोऽन्यदा राजदारकः ॥ ३० ॥ स च तं वीक्ष्य पुण्यात्मा, महाभाग सदागमम् । भाविभद्रतया धन्यः, परं हर्षमुपागतः ॥ ३१ ॥ ततः प्रणम्य सद्भक्त्या, निषण्णोऽसौ तदन्तिके । आकर्णितं मनोहारि, तद्वाक्यममृतोपमम् ॥ ३२ ॥ आवर्जितो गुणैस्तस्य, शशाङ्ककरनिर्मलैः । स भव्यपुरुषश्चित्ते, ततश्चेदमचिन्तयत् ॥ ३३ ॥ अस्याहो वाक्यमाधुर्यमहो रूपमहो गुणाः । अहो मे ध-| न्यता येन, नरोऽयमवलोकितः ॥ ३४ ॥ धन्येयं नगरी यस्यां, वसत्येष सदागमः । संजातः पूतपापोऽहं, दर्शनादस्य धीमतः ॥ ३५॥ नूनमेष भवद्भूतभाविभावविभावनम् । भावतो भगवानुचैः, करोत्येष सदागमः ॥ ३६ ॥ तदेष सदुपाध्यायो, यदि संपद्यते मम । ततोऽहमस्य नेदिष्ठो, गृहामि सकलाः कलाः ॥ ३७ ॥ ततः प्रज्ञाविशालायास्तेनाकूतं निवेदितम् । जनीजनकयोर्गत्वा, तयाऽपि कथितं वचः | ॥ ३८ ॥ प्रादुर्भूतस्तयोस्तोषः, प्रविधाय महोत्सवम् । ततः समर्पितस्ताभ्यां, सोऽन्यदा शुभवासरे ॥ ३९॥ कथम्? -कृतकौतुकसत्कारः, परिपूज्य सदागमम् । स भव्यपुरुषस्तस्य, शिष्यत्वेन निवेदितः ॥ ४० ॥ सिताम्बरधरो धीरः, सितभूषणभूषितः । सितपुष्पभरापूर्णः, सितचन्दनचर्चितः ॥ ४१ ॥ ततो महाप्रमोदेन, विनयेन विनेयताम् । प्रपन्नस्तस्य पुण्यात्मा, कलाग्रहणकाम्यया ॥ ४२ ॥ | ततो दिने दिने याति, स पार्श्वे तस्य धीमतः । सदागमस्य जिज्ञासुः, सार्द्ध प्रज्ञा विशालया ॥ ४३ ।। अन्यदा हट्टमार्गेऽसौ, लीलयाऽऽस्ते सदागमः । स भव्यपुरुषोऽभ्यर्णे, युक्तः प्रज्ञाविशालया ॥ ४४ ॥ स भूरिनरसङ्घातपरिवारितविग्रहः । अशेषभावसद्भावं, वदन्नास्ते सदा ॥१२२॥ Jain Educatio n al For Private & Personel Use Only Hainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy