________________
-GOALSO
उपमितौ पीठबन्धः
प्रज्ञाविशालाद्वारा | भव्यपुरुषानयन
॥१२२॥
नतमस्तका । प्रज्ञाविशाला तद्वाक्यमनुतस्थौ कृतादरा ॥ २६ ॥ अथासौ भव्यपुरुषस्तां धात्री प्राप्य सुन्दराम् । ललमानः सुखेनाऽऽस्ते, देववद्दिवि लीलया ॥ २७ ॥ क्रमात्संवर्द्धमानोऽसौ, कल्पपादपसंनिभः । संजातः सर्वलोकानां, लोचनानन्ददायकः ॥ २८ ॥ ये ते सदागमेनोच्चै विनो वर्णिता गुणाः । आविर्भूताः समस्तास्ते, कौमारे तस्य तिष्ठतः ॥ २९ ॥ ततः परिचयं कर्तुं, तया प्रज्ञाविशालया । नीतः सदागमाभ्यर्णे, सोऽन्यदा राजदारकः ॥ ३० ॥ स च तं वीक्ष्य पुण्यात्मा, महाभाग सदागमम् । भाविभद्रतया धन्यः, परं हर्षमुपागतः ॥ ३१ ॥ ततः प्रणम्य सद्भक्त्या, निषण्णोऽसौ तदन्तिके । आकर्णितं मनोहारि, तद्वाक्यममृतोपमम् ॥ ३२ ॥ आवर्जितो गुणैस्तस्य, शशाङ्ककरनिर्मलैः । स भव्यपुरुषश्चित्ते, ततश्चेदमचिन्तयत् ॥ ३३ ॥ अस्याहो वाक्यमाधुर्यमहो रूपमहो गुणाः । अहो मे ध-| न्यता येन, नरोऽयमवलोकितः ॥ ३४ ॥ धन्येयं नगरी यस्यां, वसत्येष सदागमः । संजातः पूतपापोऽहं, दर्शनादस्य धीमतः ॥ ३५॥ नूनमेष भवद्भूतभाविभावविभावनम् । भावतो भगवानुचैः, करोत्येष सदागमः ॥ ३६ ॥ तदेष सदुपाध्यायो, यदि संपद्यते मम । ततोऽहमस्य नेदिष्ठो, गृहामि सकलाः कलाः ॥ ३७ ॥ ततः प्रज्ञाविशालायास्तेनाकूतं निवेदितम् । जनीजनकयोर्गत्वा, तयाऽपि कथितं वचः | ॥ ३८ ॥ प्रादुर्भूतस्तयोस्तोषः, प्रविधाय महोत्सवम् । ततः समर्पितस्ताभ्यां, सोऽन्यदा शुभवासरे ॥ ३९॥ कथम्? -कृतकौतुकसत्कारः, परिपूज्य सदागमम् । स भव्यपुरुषस्तस्य, शिष्यत्वेन निवेदितः ॥ ४० ॥ सिताम्बरधरो धीरः, सितभूषणभूषितः । सितपुष्पभरापूर्णः, सितचन्दनचर्चितः ॥ ४१ ॥ ततो महाप्रमोदेन, विनयेन विनेयताम् । प्रपन्नस्तस्य पुण्यात्मा, कलाग्रहणकाम्यया ॥ ४२ ॥ | ततो दिने दिने याति, स पार्श्वे तस्य धीमतः । सदागमस्य जिज्ञासुः, सार्द्ध प्रज्ञा विशालया ॥ ४३ ।। अन्यदा हट्टमार्गेऽसौ, लीलयाऽऽस्ते सदागमः । स भव्यपुरुषोऽभ्यर्णे, युक्तः प्रज्ञाविशालया ॥ ४४ ॥ स भूरिनरसङ्घातपरिवारितविग्रहः । अशेषभावसद्भावं, वदन्नास्ते सदा
॥१२२॥
Jain Educatio
n
al
For Private & Personel Use Only
Hainelibrary.org