SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ उपमितौ अगृहीतसंकेताया बोधोदय: न्त, सफलोवा! | येनाहश्चत्ताराधनसाम्य ते तथैव मया सर्वे, दर्शनादेव निश्चिताः ॥ ८ ॥ नाहं विशेषतोऽद्यापि, वेदयस्य गुणगौरवम् । नास्यन्यः पुरुषोऽनेन, तुल्य एतत्तु पीठबन्धःलालक्षये ॥ ९॥ आसीन्मे मन्दभाग्यायाः, पुरेमं प्रति संशयः । गुणेषु दर्शनादेव, साम्प्रतं प्रलयं गतः ॥ १०॥ निगूढचरिताऽसि त्वं, सत्यं सद्भाववर्जिता । यया न दर्शितः पूर्व, ममैष पुरुषोत्तमः ॥ ११ ॥ तत्साम्प्रतं मयाऽप्यस्य, भवत्या सह सुन्दरि! । दिने दिने समा॥१२१॥॥ गत्य, कर्त्तव्या पर्युपासना ॥ १२ ॥ गुणाः स्वरूपमाचारश्चित्ताराधनमुच्चकैः । त्वयाऽस्य सर्व चार्वनि, ज्ञातं कालेन भूयसा ॥ १३ ॥ अतो ममापि तत्सर्व, निवेद्यं वल्गुभाषिणि! । येनाहमेनमाराध्य, भवामि तव सन्निभा ॥ १४ ॥ ततः प्रज्ञाविशालाऽऽह, चारुचारूदितं | प्रिये! । यद्येवं कुरुषे हन्त, सफलो मे परिश्रमः ॥ १५ ॥ अहो विशेषविज्ञानमहो वचनकौशलम् । अहो कृतज्ञता गुर्वी, तवेयं चारुलो|चने! ॥ १६ ॥ सङ्केताभावतो भद्रे!, न जानीषे सदागमम् । तथापि परमार्थेन, योग्यता तव विद्यते ॥ १७ ॥ एवं च कुर्वती नित्यं, मया सार्द्ध विचारणम् । अज्ञातपरमार्थाऽपि, ज्ञाततत्त्वा भविष्यसि ॥ १८॥ ततः संजाततोषे ते, नमस्कृत्य सदागमम् । प्रियसख्यौ गते तावत्स्वस्थानं तत्र वासरे ॥ १९ ॥ एवं दिने दिने सख्यो:, कुर्वत्त्योः सेवनां तयोः । सदागमस्य गच्छन्ति, दिनानि किल लीलया ॥ २०॥ अथान्यदा विशालाक्षी, प्रोक्ता सा तेन धीमता । प्रज्ञाविशाला सानन्दं, पुरुषेण महात्मना ॥ २१ ॥ एष सर्वगुणाधारो, भ|वत्या स्नेहनिर्भरः । बालकालात्समारभ्य, कर्त्तव्यो राजदारकः ।। २२ ॥ गत्वा राजकुलं भद्रे!, विधाय दृढसङ्गतम् । आवयं जननी चित्तं, धात्री भव कथञ्चन ।। २३ ॥ त्वयि संजातविनम्भो, येनार्य राजदारकः । सुखं विवर्द्धमानोऽपि, प्रयाति मम वश्यताम् ।। २४ ॥ प्रीततो निक्षिप्य निःशेषमात्मीयं ज्ञानकौशलम् । सुपात्रेऽत्र भविष्यामि, कृतकृत्योऽहमजसा ॥ २५॥ ततो यदादिशत्यार्य!, इत्युक्त्वा १वल्गु-सुन्दरम्. (वस्तुभाषिणि! प्र०) २ °संवृतम् प्र. उ. भ. ११ प्रज्ञाविशालाद्वारा भव्यपुरपानयन ॥१२१॥ G Jain Educati o nal For Private & Personal Use Only ainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy