________________
उपमितौ
अगृहीतसंकेताया बोधोदय:
न्त, सफलोवा! | येनाहश्चत्ताराधनसाम्य
ते तथैव मया सर्वे, दर्शनादेव निश्चिताः ॥ ८ ॥ नाहं विशेषतोऽद्यापि, वेदयस्य गुणगौरवम् । नास्यन्यः पुरुषोऽनेन, तुल्य एतत्तु पीठबन्धःलालक्षये ॥ ९॥ आसीन्मे मन्दभाग्यायाः, पुरेमं प्रति संशयः । गुणेषु दर्शनादेव, साम्प्रतं प्रलयं गतः ॥ १०॥ निगूढचरिताऽसि त्वं,
सत्यं सद्भाववर्जिता । यया न दर्शितः पूर्व, ममैष पुरुषोत्तमः ॥ ११ ॥ तत्साम्प्रतं मयाऽप्यस्य, भवत्या सह सुन्दरि! । दिने दिने समा॥१२१॥॥
गत्य, कर्त्तव्या पर्युपासना ॥ १२ ॥ गुणाः स्वरूपमाचारश्चित्ताराधनमुच्चकैः । त्वयाऽस्य सर्व चार्वनि, ज्ञातं कालेन भूयसा ॥ १३ ॥ अतो ममापि तत्सर्व, निवेद्यं वल्गुभाषिणि! । येनाहमेनमाराध्य, भवामि तव सन्निभा ॥ १४ ॥ ततः प्रज्ञाविशालाऽऽह, चारुचारूदितं | प्रिये! । यद्येवं कुरुषे हन्त, सफलो मे परिश्रमः ॥ १५ ॥ अहो विशेषविज्ञानमहो वचनकौशलम् । अहो कृतज्ञता गुर्वी, तवेयं चारुलो|चने! ॥ १६ ॥ सङ्केताभावतो भद्रे!, न जानीषे सदागमम् । तथापि परमार्थेन, योग्यता तव विद्यते ॥ १७ ॥ एवं च कुर्वती नित्यं, मया सार्द्ध विचारणम् । अज्ञातपरमार्थाऽपि, ज्ञाततत्त्वा भविष्यसि ॥ १८॥ ततः संजाततोषे ते, नमस्कृत्य सदागमम् । प्रियसख्यौ गते तावत्स्वस्थानं तत्र वासरे ॥ १९ ॥ एवं दिने दिने सख्यो:, कुर्वत्त्योः सेवनां तयोः । सदागमस्य गच्छन्ति, दिनानि किल लीलया ॥ २०॥ अथान्यदा विशालाक्षी, प्रोक्ता सा तेन धीमता । प्रज्ञाविशाला सानन्दं, पुरुषेण महात्मना ॥ २१ ॥ एष सर्वगुणाधारो, भ|वत्या स्नेहनिर्भरः । बालकालात्समारभ्य, कर्त्तव्यो राजदारकः ।। २२ ॥ गत्वा राजकुलं भद्रे!, विधाय दृढसङ्गतम् । आवयं जननी
चित्तं, धात्री भव कथञ्चन ।। २३ ॥ त्वयि संजातविनम्भो, येनार्य राजदारकः । सुखं विवर्द्धमानोऽपि, प्रयाति मम वश्यताम् ।। २४ ॥ प्रीततो निक्षिप्य निःशेषमात्मीयं ज्ञानकौशलम् । सुपात्रेऽत्र भविष्यामि, कृतकृत्योऽहमजसा ॥ २५॥ ततो यदादिशत्यार्य!, इत्युक्त्वा
१वल्गु-सुन्दरम्. (वस्तुभाषिणि! प्र०) २ °संवृतम् प्र. उ. भ. ११
प्रज्ञाविशालाद्वारा भव्यपुरपानयन ॥१२१॥
G
Jain Educati
o
nal
For Private & Personal Use Only
ainelibrary.org