________________
उपमितौ
गुणान
गुणानां वर्णनक्षमः ? ॥ २८ ॥” ततः प्रज्ञाविशालाया, वाक्यमाकर्ण्य विस्मिता । हृदये चिन्तयत्येवं, सा सन्देहमुपागता ॥ २९ ॥ यदिदं पीठवन्धः प्रियसख्या मे, विहितं गुणवर्णनम् । यदि सत्यमिदं तेन, नास्ति तुल्यस्ततोऽपरः ॥ ३० ॥ अतः पश्यामि तं तावत्करोमि खं विनिश्चयम् ।
परप्रत्ययतो ज्ञाते, न सन्देहो निवतेते ॥ ३१ ॥ ततश्चैवं विचिन्त्य तया अगृहीतसतयाऽभिहिता प्रज्ञाविशाला-प्रियसखि ! ॥१२॥
सुनिश्चितं सत्यवादिनीमपि भवतीमधुनाऽहमनेन सदागमस्यासम्भावनीयगुणवर्णनेनानर्गलभाषिणीमिव परिकल्पयामि, भवति च मे मनसि विकल्पः-किल परिचितमितिकृत्वा तमेषा वर्णयति, अन्यथा कथं कर्मपरिणामो महानरेन्द्रः कुतश्चिद्विभियात् ? कथं वैकत्र पुरुषे एतावान् गुणसंघातः संभाव्येत? न च प्रियसखी कदाचन मां विप्रलम्भयति ततः सन्देहापन्नं दोलायते मे मनः, अतस्तमात्मपरिचितं परमपुरुषं विशेषतो दर्शयितुमर्हति मे भवती, प्रज्ञाविशालाऽऽह-सुन्दरमेतद् अभिप्रेतमेव मे हृदयस्य, अभिगमनीयो द्रष्टव्य एव चासौ भगवान् , ततो गते द्वे अपि तन्मूलं, दृष्टश्च ताभ्यां तस्य महाविजयरूपापणपतिभिर्विराजितस्यानेकमहापुरुषाकीर्णस्य महाविदेहरूपस्य विप- | सदागम|णिमार्गस्य मध्ये वर्तमानः प्रधानजनपरिकरितो भूतभवद्भविष्यद्भावस्वभावाविर्भावनं कुर्वाणो भगवान् सदागमः, ततः प्रत्यासन्नीभूय प्रणम्य ४पार्श्वे गमलतचरणयुगलमुपविष्टे ते तन्निकटे, तदाकृतिदर्शनादेव सबहुमानं मुहुर्मुहुर्विलोकनादगृहीतसङ्केतायाः प्रनष्ट इव सन्देहो, वर्द्धितश्चित्तानन्दः, नं सखी
समुत्पन्नो विश्रम्भो, मताऽऽत्मनः कृतार्थता तद्दर्शनेनेति, ततः प्रज्ञाविशाला प्रत्यभिहितमनया, अपि च-धन्याऽसि त्वं महाभागे!, युग्मस्य सुन्दरं तव जीवितम् । यस्याः परिचयोऽनेन, पुरुषेण महात्मना ॥१॥ अहं तु मन्दभाग्याऽऽसं, वञ्चिताऽऽसं पुरा यया । न दृष्टोऽयं महा|भागः, पुरुषः पूतकल्मषः ॥ २ ॥ नाधन्याः प्राप्नुवन्तीम, भगवन्तं सदागमम् । निर्लक्षणनरो नैव, चिन्तामणिमवामुते ॥ ३ ॥ संजाता पूतपापाऽहमधुना मृगलोचने! । तव प्रसादाद् दृष्ट्वेमं, महाभागं सदागमम् ।। ७॥ त्वया कमलपत्राक्षि!, येऽस्य संवर्णिता गुणाः।
Jain Education
a
l
For Private & Personal Use Only
x
elibrary.org