________________
जपामता पीठबन्धः
सदागममहिमा
॥११९॥
"विच्छेद, एष एव कुठारकः । एष एव महानिद्राद्रावणः प्रतिबोधकः ॥ १०॥ एष स्वाभाविकानन्दकारणत्वेन गीयते । सातासातोदयो"त्पाद्यमिथ्याबुद्धिविधूनकः ॥ ११ ॥ एष एव गुरुक्रोधवह्निविध्यापने जलम् । एष एव महामानपर्वतोद्दलने पविः ॥ १२ ॥ एष माया"महाव्याघ्रीघातने शरभायते । एष एव महालोभनीरदे शोषणानिलः ॥ १३ ॥ एष हास्यविकारस्य, गाढं प्रशमनक्षमः । एष मोहोदयो"त्पाद्यां, रतिं निर्नाशयत्यलम् ॥ १४॥ एष एवार्ति(भय)प्रस्ते, जनेऽस्मिन्नमृतायते । एष एव भयोभ्रान्तसत्त्वसंरक्षणक्षमः ॥१५॥ एष "शोकभराक्रान्तं, संधीरयति देहिनम् । एष एव जुगुप्सादिविकारं शमयत्यलम् ॥ १६ ॥ एष कामपिशाचस्य, दृढमुच्चाटने पटुः । एष एव “च मार्तण्डो, मिथ्यात्वध्वान्तसूदनः ॥ १७ ॥ एष एव चतुर्भेदजीवितोच्छेदकारणम् । यतो जीवं ततोऽतीते, नयत्येष शिवालये ॥१८॥ "शुभेतरेण या नाम्ना, कृता लोकविडम्बना । कृन्ते तामेष लोकानामनङ्गस्थानदानतः ॥ १९ ॥ सर्वोत्तमत्वं भक्तानां, विधायाक्षयमव्य“यम् । एष एव छिनत्त्युञ्चैर्नीचैर्गोत्रविडम्बनाम्॥२०॥ एष एव च दानादिशक्तिसन्दोहकारणम् । एष एव महावीर्ययोगहेतुरुदाहृतः ॥२१॥ "अन्यच्च ये महापापा, निर्भाग्याः पुरुषाधमाः । न ते सदागमस्यास्य, नामापि बहु मन्यते ॥ २२ ॥ ततस्तेन नरेन्द्रेण, ते पूर्वोक्तवि
"धानतः । संसारनाटकेनोच्चैः, कदर्थ्यन्ते निरन्तरम् ॥२३॥ य एव भाविकल्याणाः, पुण्यभाजो नरोत्तमाः। ते सदागमनिर्देशं, SI“कुर्वन्ति महदादरात् ॥ २४ ॥ ततोऽपकर्ण्य राजानं, ते विडम्बनकारिणम् । संसारनाटकान्मुक्ता, मोदन्ते निर्वृतौ गताः ॥ २५ ॥
“राजभुक्तौ वसन्तोऽपि, राजानं तृणतुल्यकम् । सदागमप्रसादेन, मन्यन्ते ते निराकुलाः ॥ २६ ॥ किंचाऽत्र बहुनोक्तेन ?, नास्ति तद्वस्तु “किञ्चन । सदागमेऽस्मिन् भक्तानां, सुन्दरं यन्न जायते ॥ २७ ॥ तदेतदस्य माहात्म्यं, किञ्चिल्लेशेन वर्णितम् । विशेषतः पुनः कोऽस्य,
१ तेन-कर्मपरिणामेन अतीते-रहिते २ न विद्यतेऽ शरीरं यत्र तत् अनङ्ग शिवास्पदमेव ३ ० य पद. पा० ४ ततोऽनेन प्र. ५ विहितादराः प्र.
॥११९॥
Jain Education in
For Private & Personel Use Only
Alimelibrary.org