________________
उपमितौ पीठबन्धः
॥ ११८ ॥
Jain Educatio
" मात्रकं वाऽस्योपरि विदधति नाममात्रं वाऽस्य गृह्णन्ति यदिवा येऽस्य भगवतः संबन्धिनि वचने वर्तन्ते महात्मानस्तेषामुपरि 'धन्याः "कृतार्थाः पुण्यभाजः सुलब्धजन्मान एते इत्यादिवचनलिङ्गगम्यं पक्षपातं कुर्वन्ति यद्वाऽस्य भगवतोऽभिधानमात्रमप्यजानानाः प्रकृत्यैव "ये भद्रका भवन्ति ततश्च मार्गानुसारिसदन्धन्यायेनानाभोगतोऽप्यस्य वचनानुसारेण वर्त्तन्ते तानप्येवंविधाननल्पविकल्पान् लोका"नेष कर्म्मपरिणामो महानरेन्द्रो यद्यपि संसारनाटके कियन्तमपि कालं नाटयति तथाऽपि सदागमस्याभिप्रेता एत इति मत्वा नाधमपात्र"भावं नारकतिर्यक्कुमानुषकदमररूपं तेषां विधत्ते, किं तर्हि ?, केषाञ्चिदनुत्तरसुररूपं दर्शयति, केषाञ्चिद् मैवेयकामराकारं प्रकटयति, केषा"श्चिदुपरितन कल्पोपपन्नदेवरूपतां जनयति, केषाञ्चिद्धस्तनकल्पोत्पन्नमहर्द्धिलेखकरणिं कारयति, केषाञ्चिद् भुवि सुरूपतां लक्षयति, केपा"श्चिञ्चक्रवर्तिमहामण्डलिकादिप्रधानपुरुषभावं भावयति, सर्वथा प्रधानपात्ररूपतां विहाय न कदाचिद्रूपान्तरेण तान्नर्त्तयति, तत्पर्याप्तमे" तावताऽस्य भगवतः सदागमस्य माहात्म्येन यदेवंविधसामर्थ्ययुक्तोऽप्येष कर्म्मपरिणामो महानृपतिरेतद्भयाकान्तहृदयः खल्वेवं वर्त्तते“अन्यच्च कथ्यते तुभ्यं, कौतुकं यदि विद्यते । रूपं सदागमस्यास्य तद् बुध्यस्व मृगेक्षणे ! ||१|| एष एव जगन्नाथो, वत्सलः परमार्थतः । " एष एव जगत्राणमेष एव सुबान्धवः ॥ २ ॥ एष एव विपद्र्त्ते, पततामवलम्बनम् । एष एव भवाटव्यामटतां मार्गदेशकः ॥ ३ ॥ एष " एव महावैद्यः, सर्वव्याधिनिबर्हणः । एष एव गदोच्छेदकारणं परमौषधम् ॥ ४ ॥ एष एव जगद्दीपः सर्ववस्तुप्रकाशकः । प्रमादराक्ष“सात्तूर्णमेष एव विमोचकः ॥ ५ ॥ एषोऽविरतिजम्बालकल्मपक्षालनक्षमः । एष एव च योगानां दुष्टानां वारणोद्यतः ।। ६ ।। शब्दा“दिचरटाक्रान्ते, हृतधर्म्मधने जने । समर्थो भगवानेष, नान्यस्तस्य विमोचने ॥ ७ ॥ एष एव महाघोरनरकोद्धरणक्षमः । पशुत्वदुःखसं“घातात्रायकोऽप्येष देहिनाम् ॥ ८ ॥ एष एव कुमानुष्यदुःखविच्छेदकारणम् । एष एव कुदेवत्वमनः सन्तापनाशकः ॥ ९ ॥ अज्ञानतद
For Private & Personal Use Only
सदागम
महिमा
॥ ११८ ॥
ainelibrary.org