SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः ॥ ११७ ॥ Jain Educatio यति, सुभगान् दुर्भगयति, सुरूपान् कुरूपयति, पण्डितान्मूर्खयति, शूरान् क्लीवयति मानिनो दीनयति, तिरश्चो नारकायति, नारका - न्मनुष्ययति, मनुष्यान्देवयति, देवान् पशुभावमानयति, नरेन्द्रमपि कीटयति, चक्रवर्त्तिनमपि द्रमकयति, दरिद्रान्वेश्वरादिभावान् प्रापयति, किम्बहुना ? यथेष्टं भावपरावर्त्तनं विदधानो न क्वचित्प्रतिहन्यते, अयमप्यस्य भगवतः सदागमस्य संबन्धिनोऽभिधानादुपि बिभेति, गन्धादपि पलायते, तथाहि - तावदेष कर्म्मपरिणाम एतान्समस्तलोकान्संसारनाटकविडम्बनाया विडम्बयति यावदयं सदागमो भगवान्न हुंकारयति, यदि पुनरेष हुङ्कारयेत्ततो भयातिरेकस्रस्तसमस्तगात्रो महासमरसंघट्टे कातरनर इव प्राणान् स्वयमेव समस्तानपि मुश्चेत्, मोचिताश्चानेनामुष्मादनन्ताः प्राणिनः, अगृहीतसङ्केतयोक्तम्-ते किमिति न दृश्यन्ते ?, प्रज्ञाविशालाssह — अस्ति कर्म्मपरिणाममहाराजभुक्तेरतिक्रान्ता निर्वृतिर्नाम महानगरी, ततस्ते सदागमद्दुङ्कारेण कर्म्मपरिणाममप्रभवन्तमात्मन्युपलभ्य मोचिता वयं सदागमे - नेति मत्वा कर्म्मपरिणामशिरसि पाददानद्वारेणोड्डीय तस्यां गच्छन्ति, गताश्च तस्यां सकलकालं समस्तोपद्रवत्रासरहिताः परमसुखिनस्तिष्ठन्ति, तेन कारणेन ते नेह दृश्यन्ते, अगृहीतसङ्केतयोक्तम् — यद्येवं किमित्येष सर्वलोकान्न मोचयति ?, कदर्शिता ह्येते वराकाः सर्वेऽप्यनेनातिविषमशीलतया कर्म्मपरिणाममहाराजेन, तन्न युक्तमस्य महापुरुषशेखरस्य सत्यामेवंविधशक्तौ तत्कदर्थनस्योपेक्षणमिति, प्रज्ञाविशालाsse - सत्यमेतत्, "केवलं प्रकृतिरियमस्य भगवतः सदागमस्य यया वचनविपरीतकारिषु कुपात्रेष्ववधीरणां विधत्ते, ततस्तेनावधीरिताः “सन्तो नाथरहिता इति मत्वा गाढतरं कर्म्मपरिणामराजेन कदर्थ्यन्ते, ये तु पात्रभूततयाऽस्य निर्देशकारिणो भवन्ति तानेव स्वां प्रकृति - "मनुवर्त्तमानः कर्म्मपरिणामकदर्थनायाः सर्वथाऽयं मोचयतीति, येऽपि लोका भगवतोऽस्य सदागमस्योपरि भक्तिमन्तोऽप्यस्य सम्बन्धि वचनं "तथाविधशक्ति विकलतया संपूर्णमनुष्ठातुं न शक्नुवन्ति, किं तर्हि ? तन्मध्याद् बहुतमं बहुतरं बहु स्तोकं स्तोकतरं स्तोकतमं वा कुर्वन्ति भक्ति - ational For Private & Personal Use Only सदागममहिमा ॥ ११७ ॥ jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy