SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः ॥११६॥ केचिदपकर्णयन्ति, केचिदुपहसन्ति, केचिदुपदिष्टाकरणशक्तिमात्मनो दीपयन्ति, केचित्तद्वचनाद् दूरत एव त्रस्यन्ति, केचित्तं प्रतारक|धिया शङ्कन्ते, केचित्तद्वचनमादित एव नावबुध्यन्ते, केचित्तद्वचनं श्रुतमपि न रोचयन्ति केचित्तद्रोचितमपि नानुतिष्ठन्ति, केचिदनुधातुमधिकृतमपि पुनः शिथिलयन्ति, ततश्चैवं स्थिते नास्य सम्यक् संपद्यते परोपकारकरणलक्षणा समीहितसिद्धिः, ततोऽयमनया सततं प्राणिनामपात्रतया गाढमुद्वेजितः, भवत्येव हि गुरूणामपि निष्फलतया कुपात्रगोचरो महाप्रयासः चित्तखेदहेतुः, अयं तु राजदारको | भव्यपुरुष इति पात्रभूतोऽस्य प्रतिभासते, भव्यपुरुषः सन्नपि यदि दुर्मतिः स्यात् ततो न पात्रतां लभेत, अयं तु राजदारको यतः सुमतिरतः पात्रभूत एवेतिकृत्वाऽमुष्य सदागमस्यात्यन्तवल्लभः, अन्यच्चायं सदागमो मन्यते-यतोऽस्य दारकस्यैवंरूपतया जनकत्वादेव सुन्दरतरः कर्मपरिणामः जननीत्वादेव चानुकूला कालपरिणतिः ततोऽयं विमुक्तबालभावः सुन्दरतया निजखभावस्य प्रत्यासन्नतया | कल्याणपारम्पर्य्यस्य प्रमोदहेतुतयैवंविधपुरुषाणां मदर्शनमस्यामुपलभ्य नियमेनास्य भविष्यति मनस्येवंविधो वितर्क:-यथा सुन्दरेयं | मनुजगतिर्नगरी यस्यामेष सदागमः परमपुरुषः प्रतिवसति, ममाप्यस्ति प्रायेण योग्यता काचित्तथाविधा यया तेन सह मीलकः संपन्नः, | ततोऽमुं परमपुरुषं विनयेनाऽऽराध्यास्य सम्बन्धि ज्ञानमभ्यस्यामि, ततोऽनुकूलत्वाजननीजनकयोस्ताभ्यां समर्पितो भविष्यति ममैष | शिष्यः, ततोऽहमस्य संक्रामितनिजज्ञानः कृतकृत्यो भविष्यामीति बुद्ध्याऽयं सदागमोऽस्य सुमतेर्भव्यपुरुषस्य जन्मना सफलमात्मानमवगच्छतीति, अत एव संजातपरितोषतया जनसमक्षं राजदारकगुणानेष वर्णयति, अगृहीतसङ्केतयोक्तम्-प्रियसखि!, किं पुनरस्य भग-18 सदागमवतः सदागमस्य माहात्म्यं ? यदेते पापिष्ठसत्त्वा नावबुध्यन्ते, अनवबुध्यमानाश्च नास्य वचने वर्तन्ते इति, प्रज्ञाविशालयोक्तम्-वयस्ये!, महिमा समाकर्णय-य एव सर्वत्रानिवारितशक्तिप्रसरः कर्मपरिणामो महाराजो यथेष्टचेष्टया संसारनाटकमावर्त्तयमानः सततमीश्वरान् दरिद्र- ॥११६॥ -- JainEducation a l For Private Personel Use Only
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy