SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः ॥ ११३ ॥ Jain Educat महादेव्यनन्तापत्यजनयित्री तथापि दुर्जनचक्षुर्दोषभयादेव तैरेव मन्त्रिभिर्वन्ध्येति लोके प्रख्याप्यते, तथाहि — यावन्तः क्वचित्केचिज्जन्तवो | जायन्ते तेषां सर्वेषामेतावेव देवीनृपौ परमवीर्ययुक्ततया परमार्थतया जननीजनकौ, अन्यच्च - किं न दृष्टं श्रुतं वा क्वचिदपि प्रियसख्या अनयोर्नाटकं पश्यतोर्यन्माहात्म्यं ? यदुत - राजा समस्तपात्राणि यथेच्छया नारकतिर्यङ्नरामरगतिलक्षणसंसारान्तर्गतानेकयोनिलक्षप्रभवजन्तुरूपेण नाटयति, महादेवी पुनस्तेषामेव महाराजजनितनानारूपाणां समस्तपात्राणां गर्भावस्थितिबालकुमारतरुणमध्यमजराजीर्णमृत्युगर्भप्रविष्टनिष्क्रान्तादिरूपाण्यनन्तवाराः कारयतीति, अगृहीतसङ्केताऽऽह — प्रियसखि ! श्रुतमेतन्मया, किन्तु यदि नाम कर्म्मपरिणामस्य राज्ञः समस्तपात्रपरावर्तने सामर्थ्य कालपरिणतेर्वा महादेव्यास्तेषामेवापरापरावस्थाकरणशक्तिः तत्किमेतावतैवानयोर्जननीजनकत्वं संभवति ?, प्रज्ञाविशालाऽऽह - अयि प्रियवयस्ये ! अत्यन्तमुग्धाऽसि, यतो गौरपीहार्द्धकथितमवबुध्यते त्वं पुनः परिस्फुटमपि कथ्यमानं न जानीषे, यतः संसार एवात्र परमार्थतो नाटकं, तस्य च यौ जनकावेतौ परमार्थतः सर्वस्य जननीजनकाविति, अगृहीतसङ्केताऽऽह – प्रियसखि ! यदि समस्तजगज्जननीजनकयोरपि देवीनृपयोर्देव्या वन्ध्यात्वं नृपस्य निर्बीजत्वं दुर्जनचक्षुर्दोषभयादविवेकादिभिर्मन्त्रिभिः प्रख्यापितं लोके तत्कि - मित्यधुनाऽयं भव्यपुरुषोऽनयोः पुत्रतया महोत्सवकलकलेन प्रकाशित इति, प्रज्ञाविशालाऽऽह — समाकर्णयास्य प्रकाशने यत्कारणम्अस्त्यस्यामेव नगर्या शुद्धसत्यवादी समस्तसत्त्वसङ्घातहितकारी सर्वभावस्वभाववेदी अनयोश्च कालपरिणतिकर्म्मपरिणामयोर्देवीनृपयोः समस्तरहस्यस्थानेष्वत्यन्तभेदज्ञः सदागमो नाम परमपुरुषः, अस्ति च तेन सार्द्ध मम घटना, स चान्यदा दृष्टो मया सहर्षः, पृष्टो निर्बन्धेन हर्षकारणं, तेनोक्तम्- ' आकर्णय भद्रे ! यदि कुतूहलं, येयं कालपरिणतिर्महादेवी अनया रहसि विज्ञापितो राजा यदुत - निर्विण्णाऽहमनेनात्मनोऽलीकवन्ध्याप्रवादेन यतोऽहमनन्तापत्यापि दुर्जनचक्षुर्दोषभयादविवेकादिभिर्मन्त्रिभिर्वन्ध्येति प्रख्यापिता लोके, ममैवापत्यान्यन्य national For Private & Personal Use Only कर्मकालपरिणत्योः सर्वान् प्रति जनकीजनकते ॥ ११३ ॥ w.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy