SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः ॥११२॥ घोषणापूर्वकं ददध्वमनपेक्षितसारासारविचाराणि महादानानि, पूजयत गुरुजनं, संमानयत परिजनं, पूरयत प्रणयिजनं, मोचयत बन्ध- जन्मोत्सनागारं, वादयताऽऽनन्दमईलसन्दोहं, नृत्यत यथेष्टमुद्दामतया, पिबत पानं, सेवध्वं दयिताजनं, मा गृहीत शुल्क, मुश्चत दण्डं, आश्वा- व: नामकसयत भीतलोकं, वसन्तु सुस्वस्थचित्ताः समस्ता जनाः, नास्ति कस्यचिदपराधगन्धोऽपीति । ततो यदाज्ञापयति देव इति विनयनतोत्त-| रणोत्सवश्च माङ्गः प्रतिपद्य संपादितं तद्राजशासनं महत्तमैः, निर्वतितोऽशेषजनचमत्कारकारी जन्मदिनमहोत्सवः, प्रतिष्ठापितं समुचिते काले दारकस्य नरनाथेन स्वचित्तेनैवं पर्यालोच्य यतोऽस्य गर्भावतारकाले जननी सर्वाङ्गसुन्दरं नरं वदनेन प्रविशन्तं दृष्टवती ततोऽस्य भवतु भव्यपुरुष इति नाम, ततस्तदाकर्ण्य देवी राजानमुवाच-देवाहमपि पुत्रकस्य किंचिन्नाम कर्तुमभिलषामि तदनुजानातु देव इति, नृपतिगह-देवि ! कः कल्याणेषु विरोधः ?, अभिधीयतां समीहितमिति, ततस्तयोक्तं यतोऽत्र गर्भस्थे मम कुशलकर्मकरणपक्षपातिनी | मतिरभूत्ततोऽस्य भवतु सुमतिरित्यभिधानं, ततोऽहो क्षीरे खण्डक्षेपकल्पमेतद्देवीकौशलेन संपन्नं यद्भव्यपुरुषस्य सतः सुमतिरित्यभिधानान्तरमिति ब्रुवाणः परितोषमुपागतो राजा, विशिष्टतरं नामकरणमहोत्सवं कारयामास, इतश्चास्ति तस्यामेव मनुजगतौ नगर्यामगृहीतसङ्केता नाम ब्राह्मणी, सा जनवादेन नरपतिपुत्रजन्मनामकरणवृत्तान्तमवगम्य सखीं प्रत्याह-प्रियसखि प्रज्ञाविशाले! पश्य यच्छ्रयते महाश्चर्य लोके यथा कालपरिणतिर्महादेवी भव्यपुरुषनामानं दारकं प्रसूतेति, ततः प्रज्ञाविशालयोक्तं-प्रियसखि ! किमत्राश्चर्य ?, अगृहीतसङ्केताऽऽह-यतो मयाऽवधारितमासीत् किलैप कर्मपरिणाममहाराजो निर्वीजः स्वरूपेण इयमपि कालपरिणतिर्महादेवी वन्ध्येति, इदानीं पुनरनयोरपि पुत्रोत्पत्तिः श्रूयत इति महदाश्चर्यम्, प्रज्ञाविशालाऽऽह-अयि मुग्धे! सत्यमगृहीतसङ्केताऽसि, यतो न विज्ञातस्त्वया | परमार्थः, अयं हि राजा अविवेकादिमिर्मत्रिभिरतिबहुबीज इति मा भूहुर्जनचक्षुर्दोष इति कृत्वा निर्बीज इति प्रकाशितो लोके, इयमपि3 " पता नविशतिस्त्वया ॥११२॥ Join Education a l For Private & Personal Use Only MEnelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy