________________
उपमितौ पीठबन्धः
॥१०८॥
धानकुलपुत्रकैः । अनार्यकार्यकारित्वात् , कचिद्दर्शितविस्मयम् ॥ १५ ॥ कचिदनुरक्तभर्तारं, मुञ्चद्भिः कुलटागणैः । नीचगामिभिराश्चर्य, दधानं सुकुलोद्गतैः ॥ १६ ।। कचित् कृतचमत्कारं, नृत्यद्भिर्हास्यहेतुभिः । स्वागमोत्तीर्णकर्त्तव्यासक्तपाखण्डमण्डलैः ॥ १७ ॥ तदेवंविधवृत्तान्तप्रतिबद्धमनाकुलम् । संसारनाटकं चित्रं, नाटयत्येष लीलया ॥ १८ ॥ रागद्वेषाभिधानौ द्वौ, मुरजौ तत्र नाटके । दुष्टाभिसन्धिनामा तु, तयोरास्फालको मतः ।। १९ ।। मानक्रोधादिनामानो, गायनाः कलकण्ठकाः । महामोहाभिधानस्तु, सूत्रधारः प्रवर्तकः ॥२०॥ रागाभिलाषसंज्ञोऽत्र, नान्दीमङ्गलपाठकः । अनेकविब्बोककरः, कामनामा विदूषकः ।। २१ ।। कृष्णादिलेश्यानामानो, वर्णकाः पात्रम| ण्डनाः । योनिः प्रविशत्पात्राणां, नेपथ्यं व्यवधायकम् ॥ २२ ॥ भयादिसंज्ञा विज्ञेयाः, कंशिकास्तत्र नाटके । लोकाकाशोदरा नाम, विशाला रङ्गभूमिका ॥ २३ ॥ पुद्गलस्कन्धनामानः, शेषोपस्करसंचयाः । इत्थं समग्रसामग्रीयुक्ते नाटकपेटके ।। २४ ।। नानापात्रपरा|वृत्त्या, सर्वलोकविडम्बनाम् । अपरापररूपेण, कुर्वाणोऽसौ प्रमोदते ॥ २५ ॥ युग्मम् ॥ किंचात्र बहुनोक्तेन ?, नास्ति तद्वस्तु किश्चन । | यदसौ मनसोऽभीष्टं, न करोति महानृपः ॥ २६ ॥ तस्य चैवंभूतस्य त्रिगण्डगलितवनहस्तिन इव सर्वत्रास्खलितप्रसरतया यथेष्टचेष्टया | विचरतो यथाभिरुचितकारिणः कर्मपरिणाममहानृपतेः समस्तान्तःपुरकुलतिलकभूता ऋतुलक्ष्मीणामिव शरलक्ष्मीः शरल्लक्ष्मीणामिव कुमु
कालपरिदिनी कुमुदिनीनामिव कमलिनी कमलिनीनामिव कलहंसिका कलहंसिकानामिव राजहंसिका बह्वीनां नियतियदृच्छाप्रभृतीनां देवीनां
णतेः महामध्ये निजरूपलावण्यवर्णविज्ञानविलासादिभिर्गुणै रमणीयत्वेन प्रधानतमा कालपरिणतिर्नाम महादेवी, सा च तस्य नृपतेर्जीवितमि-131
देवीकवात्यन्तवल्लभा, आत्मीयचित्तवृत्तिरिव सर्वकार्येषु यत्कृतप्रमाणा, सुमत्रिसंहतिरिव स्वयमपि किञ्चित् कुर्वता तेन प्रष्टव्या, सुमित्रसन्तति
ल्पना
४।१०८॥ १ नवाक्षरोऽयं पादः. २ वादकः. ३ रङ्गाः.
For Private
Personel Use Only
Artinelibrary.org