________________
उपमितौ पीठबन्धः
कर्मणो नाटकम्
॥१०७॥
SSSSSSSS
देहिनाम् । स चण्डशासनो दण्डं, पातयत्यनपेक्षया ।। २ ।। स च केलिप्रियो दुष्टो, लोभादिभटवेष्टितः । नाटकेषु परां काष्ठां, प्राप्तोऽत्यन्तविचक्षणः ॥ ३ ॥ नास्ति मल्लो जगत्यन्यो, ममेति मदविह्वलः । स राजोपद्रवं कुर्वन्न धनायति कस्यचित् ।। ४ ॥ ततो हास्यपरो |लोकान् , नानाकारैविडम्बनैः । सर्वान्विडम्बयन्नुचैर्नाटयत्यात्मनोऽप्रतः ॥ ५॥ तेऽपि लोका महान्तोऽपि, प्रतापमसहिष्णवः । तस्य यद्य-15 दसौ वक्ति, तत्तत्सर्व प्रकुर्वते ॥ ६ ॥ ततश्च-कांश्चिन्नारकरूपेणाक्रोशतो वेदनातुरान् । नर्तयत्यात्मनः प्रीति, मन्यमानो मुहुर्मुहुः ॥१॥ यथा यथा महादुःखैर्विह्वलांस्तानुदीक्षते । तथा तथा मनस्युच्चैरुल्लसत्येष तोषतः ॥ २॥ कांश्चिद्दर्पोद्धुरो भूत्वा, स इत्थं बत भाषते । भयविह्वलचित्तत्वादाज्ञानिर्देशकारकान् ॥ ३ ॥ अरे रे तिर्यगाकार, गृहीत्वा रङ्गभूमिषु । कुरुध्वं नाटकं तूर्ण, मम चित्तप्रमोदकम् ॥ ४॥ ततश्च-काकरासभमार्जारमूषकाकारधारकाः । सिंहचित्रकशार्दूलमृगवेषविडम्बकाः ॥ ५ ॥ गजोष्ट्राश्वबलीवर्दकपोतश्येनरूपिणः । यूका| पिपीलिकाकीटमत्कुणाकारधारिणः ॥ ६ ॥ अनन्तरूपास्तिर्यञ्चो, भूत्वा तच्चित्तमोदनम् । ते नाटकं महाहास्यकारणं नाटयन्ति वै ॥ ७॥ कुब्जवामनमूकान्धवृद्धबाधिर्यसंगतैः । तथाऽन्यमानुषैः पात्रैर्नाटकं नाटयत्यसौ ॥ ८ ॥ ईर्ष्याशोकभयग्रस्तैर्देववेषविडम्बकैः । विहितं नाटकं दृष्ट्वा, स तुष्टो बत जायते ॥ ९॥ तथा यथेष्टचेष्टोऽसौ, पुनस्तानेव सुन्दरैः । आकारैर्योजयत्युञ्चैर्लोकान्नाटककाम्यया ॥ १० ॥ विडम्ब्यमानास्ते तेन, प्राणिनः प्रभविष्णुना । त्रातारमात्मनः कश्चिन्न लभन्ते कदाचन ॥ ११ ॥ स हि विज्ञापनातीतः, स्वतन्त्रो यच्चिकीपति । तत्करोत्येव केनापि, न निषिद्धो निवर्तते ॥ १२ ॥ ततश्च क्वचिदिष्टवियोगात, कचित्संगमसुन्दरम् । कचिद्रोगभराक्रान्तं, कचिहारिद्र्यदूषितम् ॥ १३ ॥ कचिदापगतानेकसत्त्वसंघातदारुणम् । कचित्संपत्समुद्भूतमहानन्दमनोहरम् ॥ १४ ॥ विलक्ष्य कुलमर्यादां, प्र
१ गृद्धिविषयो न भवति.
OCCASSAMASSAGE
१०७॥
Jain Education
a
l
For Private & Personel Use Only
ainelibrary.org