SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ मनुजनगर्याः वर्णन वन्यतमा नराः उपमितौ राजमार्गप्रविभक्तानि जम्बूद्वीपधातकीखण्डपुष्करवरद्वीपार्द्धरूपाणि वसन्ति त्रीण्येव पाटकमण्डलानि, यस्यां च लोकसुखहेतवः समुचितपीठबन्धः स्थानस्थायिनः कल्पद्रुमरूपा भूयांसः स्थानान्तरीयनृपतय इति । अपि च यस्याः कः कोटिजिह्वोऽपि, गुणसंभारगौरवम् । शक्तो वर्ण |यितुं लोके, नगर्याः ? किमु मादृशः ॥ १॥ यस्यां तीर्थकृतोऽनन्ताश्चक्रिकेशवशीरिणः । संजाताः संजनिष्यन्ते, जायन्तेऽद्यापि केचन ॥१०६॥ ॥२॥ या चेह सर्वशास्त्रेषु, लोके लोकोत्तरेऽपि च । अनन्तगुणसंपूर्णा, दुर्लभत्वेन गीयते ॥ ३ ॥ उच्चावचेषु स्थानेषु, हिण्डित्वा श्रा-टू न्तजन्तवः । प्राप्ताः खेदविनोदेन, लभन्ते यत्र निर्वृतिम् ॥ ४॥ विनीताः शुचयो दक्षा, यस्यां धन्यतमा नराः । न धर्ममपहायान्यनून चेतसि कुर्वते ॥ ५ ॥ यस्यां नार्यः सदाऽनार्यकार्यवर्जनतत्पराः। पुण्यभाजः सदा धर्म, जैनेन्द्रं पर्युपासते ॥ ६ ॥ किंचात्र बहुनोक्तेन ?, वस्तु नास्ति जगत्रये । तस्यां निवसतां सम्यक् , पुंसां यन्नोपपद्यते ॥ ७॥ सा हि रत्नाकरैः पूर्णा, सा विद्याभूमिरुत्तमा । सा मनोनयनानन्दा, सा दुःखौघविनाशिका ॥ ८॥ साऽखिलाश्चर्यभूयिष्ठा, सा विशेषसमन्विता । सा मुनीन्द्रसमाकीर्णा, सा सुश्रावकभूपिता ॥ ९ ॥ सा जिनेन्द्राभिषेकादितोषिताखिलभव्यका । साऽपवर्गाय भव्यानां, सा संसाराय पापिनाम् ॥ १० ॥ जीवोऽजीवस्तथा पुण्यपापाद्याः सन्ति नेति वा । अयं विचारः प्रायेण, तस्यामेव विशेषतः ॥ ११ ॥ यस्तस्यामपि संप्राप्तो, नगर्या पुरुषाधमः । न युज्यते गुणैर्लोकः, सोऽधन्य इति गण्यते ॥ १२ ॥ तां विमुच्य न लोकेऽपि, स्थानमस्तीह मानवाः! । संपूर्ण यत्र जायेत, पुरुषार्थचतुष्टयम् ४॥ १३ ॥ तस्यां च मनुजगतौ नगर्यामतुलबलपराक्रमः स्ववीर्याक्रान्तभुवनत्रयः शक्रादिभिरप्रतिहतशक्तिप्रसरः कर्मपरिणामो नाम महानरेन्द्रः, यो नीतिशास्त्रमुल्लचय, प्रतापैकरसः सदा । तृणतुल्यं जगत्सर्व, विलोकयति हेलया ॥ १ ॥ निर्दयो निरनुक्रोशः, सर्वावस्थासु | १ मण्यते प्र० सम्यक् , पुंसां यनमाजः सदा धर्म, कर्मण राज्ञत्वकल्पना ॥१०६॥ Jain Education anal For Private & Personel Use Only sww.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy