SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः ॥ १०४ ॥ Jain Education न्मूलयितुं पटिष्ठमेव, स्वाधीनं च तदाकर्णनं भवतां, तथा यद्यपि चिरन्तनमहापुरुषोपनिबद्धकथाप्रबन्धश्रवणेनापि सद्भावनया क्रियमाणेन रागादित्रोटनं सुन्दरतरं संभवत्येव तथाऽप्यमुनोपायेन संसारसागरं तरितुकामे मयि परमकरुणैकरसाः सन्तः प्रस्तुतकथाप्रबन्धमपि स - |र्वेऽपि भवन्तः श्रोतुमर्हन्तीति । तदेवमेतत्कथानकं प्रायः प्रतिपदमुपनीतं यत्पुनरन्तरान्तरा किञ्चिन्नोपनीतं तस्याप्यनेनैवानुसारेण स्वबुद्ध्यैवोपनयः कार्यः, भवत्येव गृहीतसङ्केतानामुपमानदर्शनादुपमेयप्रतीतिः, अत एवेदं कथानकमादावस्यैवार्थस्य दर्शनार्थमुपन्यस्तं यतोऽस्यां कथायां न भविष्यति प्रायेण निरुपनयः पदोपन्यासः, ततोऽत्र शिक्षितानां सुखेनैव तद्वगतिर्भविष्यतीत्यलमतिविस्तरेणेति - इह हि जीवमपेक्ष्य मया निजं, यदिदमुक्तमदः सकले जने । लगति संभवमात्रतया त्वहो, गदितमात्मनि चारु विचार्यताम् ॥ १ ॥ निन्दाऽऽत्मनः | प्रवचने परमः प्रभावो, रागादिदोषगणदौष्ट्यमनिष्टता च । प्राक्कर्मणामतिबहुश्च भवप्रपञ्चः, प्रख्यापितं सकलमेतदिहाद्यपीठे ॥ २ ॥ संसारेsa निरादिके विचरता जीवेन दुःखाकरे, जैनेन्द्रं मतमाप्य दुर्लभतरं ज्ञानादिरत्नत्रयम् । लब्धे तत्र विवेकिनाऽऽद्रवता भाव्यं सदा वर्द्धने, तस्यैवाऽऽद्यकथानकेन भवतामित्येतदावेदित्तम् ॥ इत्युपमितिभवप्रपञ्चायां कथायां पीठबन्धो नाम प्रथमः प्रस्तावः समाप्तः ॥ १ ॥ For Private & Personal Use Only कथाश्रवणे विज्ञप्तिः ॥ १०४ ॥ ainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy