SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः ॥१०३॥ तीति?, ततः सद्बुद्धिबलादेवेदं लक्षयति यदुत-न साक्षान्मया दीयमानोऽयममीषां समस्तलोकानामुपादेयता प्रतिपद्यते, तस्मादेवं करिष्ये कथाकृते | यदुत-यान्येतानि ज्ञानदर्शनचारित्राणि भगवन्मतसारभूतानि प्रतिपाद्यानि वर्त्तन्ते, तान्येकस्यां ग्रन्थपद्धतौ ज्ञेयश्रद्धेयानुष्ठयार्थविरचनेन प्रयोजन विषयविषयिणोरभेदोपचारद्वारेण व्यवस्थाप्य ततस्तां प्रन्धपद्धतिमत्र मौनीन्द्रे प्रवचने भव्यजनसमक्षं मुत्कलां मुञ्चामि, ततस्तस्यां वर्त्तमानानि तानि समस्तजनादेयानि भविष्यन्ति, किं च-यद्येकस्यापि जन्तोस्तानि भावतः परिणमेयुः ततस्तत्का, किं न पर्याप्तमिति, | तदिदमवधार्यानेन जीवेनेयमुपमितिभवप्रपञ्चा नाम कथा यथार्थाभिधाना प्रकृष्टशब्दार्थविकलतया सुवर्णपात्र्यादिव्यवच्छेदेन काष्ठपात्री| स्थानीया निहितज्ञानदर्शनचारित्रभेषजत्रयी तथैव विधास्यते, तत्रैवं स्थिते भो भव्याः! श्रूयतां भवद्भिरियमभ्यर्थना यथा-तेनापि रोरेण कथाङ्गीतथा प्रयुक्तं तद्भेषजत्रयमुपादाय ये रोगिणः सम्यगुपभुजते ते नीरोगतामास्कन्दन्ति, युज्यते च तत्तेषां गृहीतुं, तस्य ग्रहणे रोरोपका- दि कर्तुः गुणरसंपत्तेः, तथा मादृशाऽपि भगवदवलोकनयाऽवाप्तसद्गुरुपादप्रसादेन तदनुभावाविर्भूतसद्बुद्धितया यदस्यां कथायां विरचयिष्यते ज्ञानादि प्राप्तिः त्रयं तल्लास्यन्ति ये जीवास्तेषां तद्रागादिभावरोगनिबर्हणं संपत्स्यत एव, न खलु वक्तुर्गुणदोषावपेक्ष्य वाच्याः पदार्थाः स्वार्थसाधने प्रवर्तन्ते, तथाहि-यद्यपि स्वयं बुभुक्षाक्षामः पुरुषः स्वामिसंबन्धिनमाहारविशेषं तदादेशेनैव तदुचितपरिजनाय प्रकटयन् न भोजनायोत्सङ्गे कलयति तथाऽप्यसावाहारविशेषस्तं परिजनं तर्पयत्येव, न वक्तदोषेण स्वरूपं विरहयति, तथेहापि योजनीयं, तथाहि-स्वयं ज्ञानाद्यपरिपूर्णेनापि मया भगवदागमानुसारेण निवेदितानि ज्ञानादीनि ये भव्यसत्त्वा ग्रहीष्यन्ति तेषां रागादिबुभुक्षोपशमेन स्वास्थ्यं करिष्यन्त्येव, स्वरूपं हि तत्तेषामिति, किं च यद्यपि भगवत्सिद्धान्तमध्यमध्यासीनमेकैकं पदमाकर्ण्यमानं भावतः सकलं रागादिरोगजालं समु। १°त्सवं प्र. ॥१० ॥ Jain Education a l For Private & Personel Use Only Painelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy