SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः ॥१०३॥ तीति?, ततः सद्बुद्धिबलादेवेदं लक्षयति यदुत-न साक्षान्मया दीयमानोऽयममीषां समस्तलोकानामुपादेयता प्रतिपद्यते, तस्मादेवं करिष्ये कथाकृते | यदुत-यान्येतानि ज्ञानदर्शनचारित्राणि भगवन्मतसारभूतानि प्रतिपाद्यानि वर्त्तन्ते, तान्येकस्यां ग्रन्थपद्धतौ ज्ञेयश्रद्धेयानुष्ठयार्थविरचनेन प्रयोजन विषयविषयिणोरभेदोपचारद्वारेण व्यवस्थाप्य ततस्तां प्रन्धपद्धतिमत्र मौनीन्द्रे प्रवचने भव्यजनसमक्षं मुत्कलां मुञ्चामि, ततस्तस्यां वर्त्तमानानि तानि समस्तजनादेयानि भविष्यन्ति, किं च-यद्येकस्यापि जन्तोस्तानि भावतः परिणमेयुः ततस्तत्का, किं न पर्याप्तमिति, | तदिदमवधार्यानेन जीवेनेयमुपमितिभवप्रपञ्चा नाम कथा यथार्थाभिधाना प्रकृष्टशब्दार्थविकलतया सुवर्णपात्र्यादिव्यवच्छेदेन काष्ठपात्री| स्थानीया निहितज्ञानदर्शनचारित्रभेषजत्रयी तथैव विधास्यते, तत्रैवं स्थिते भो भव्याः! श्रूयतां भवद्भिरियमभ्यर्थना यथा-तेनापि रोरेण कथाङ्गीतथा प्रयुक्तं तद्भेषजत्रयमुपादाय ये रोगिणः सम्यगुपभुजते ते नीरोगतामास्कन्दन्ति, युज्यते च तत्तेषां गृहीतुं, तस्य ग्रहणे रोरोपका- दि कर्तुः गुणरसंपत्तेः, तथा मादृशाऽपि भगवदवलोकनयाऽवाप्तसद्गुरुपादप्रसादेन तदनुभावाविर्भूतसद्बुद्धितया यदस्यां कथायां विरचयिष्यते ज्ञानादि प्राप्तिः त्रयं तल्लास्यन्ति ये जीवास्तेषां तद्रागादिभावरोगनिबर्हणं संपत्स्यत एव, न खलु वक्तुर्गुणदोषावपेक्ष्य वाच्याः पदार्थाः स्वार्थसाधने प्रवर्तन्ते, तथाहि-यद्यपि स्वयं बुभुक्षाक्षामः पुरुषः स्वामिसंबन्धिनमाहारविशेषं तदादेशेनैव तदुचितपरिजनाय प्रकटयन् न भोजनायोत्सङ्गे कलयति तथाऽप्यसावाहारविशेषस्तं परिजनं तर्पयत्येव, न वक्तदोषेण स्वरूपं विरहयति, तथेहापि योजनीयं, तथाहि-स्वयं ज्ञानाद्यपरिपूर्णेनापि मया भगवदागमानुसारेण निवेदितानि ज्ञानादीनि ये भव्यसत्त्वा ग्रहीष्यन्ति तेषां रागादिबुभुक्षोपशमेन स्वास्थ्यं करिष्यन्त्येव, स्वरूपं हि तत्तेषामिति, किं च यद्यपि भगवत्सिद्धान्तमध्यमध्यासीनमेकैकं पदमाकर्ण्यमानं भावतः सकलं रागादिरोगजालं समु। १°त्सवं प्र. ॥१० ॥ Jain Education a l For Private & Personel Use Only Painelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy