________________
उपमितौ पीठबन्धः ॥ १०२ ॥
तयाऽभिहितं — भद्र ! भवतो रोरभावं स्मरन्तः खल्वेते लोका भद्रमनादरेणावलोकयन्ति तेन न गृह्णन्ति भवता दीयमानं, ततो यदि भद्रस्य समस्ति समस्त जनग्राहणाभिलाषः ततोऽयं तदुपायो मामके चेतसि परिस्फुरति यदुत — निधायेदं भेषजत्रयं विशालायां काष्ठपात्र्यां ततस्तां महाराजसदनाजिरे यत्र प्रदेशे समस्तजनाः पश्यन्ति तस्मिन् विमुच्य ततो विश्रब्धमानसोऽवतिष्ठस्व, का ते चिन्ता ?, यतोऽज्ञातस्वामिभावाः साधारणमेतदितिबुद्ध्या तथाकृतं सर्वेऽपि ग्रहीष्यन्ति, किं वा तेन ?, यद्येकोऽपि सद्गुणः पुरुषस्तदादद्यात् ततो भविष्यति ते मनोरथपरिपूर्त्तिरिति, ततस्तथैव कृतं समस्तं तत्तेनेति' तथाऽयमपि जीवोऽनासादितज्ञानादिनिक्षेपपात्रः सद्बुद्धिपर्यालोचादेवेदं जानीते यदुत -न मौनमालम्बमानैः परेषां ज्ञानाद्याधानं विधातुं पार्यते, न च ज्ञानादिसंपादनं विहायान्यः परमार्थतः परोपकारः संभवति, अवाप्तसन्मार्गेण च पुरुषेण जन्मान्तरेऽपि तस्याविच्छेदनमभिलषता परोपकारकरणपरेण भवितव्यं, तस्यैव पुरुषगुणोत्कर्षाविर्भावकत्वात्, यतः “परोपकारः सम्यक् क्रियमाणो धीरतामभिवर्द्धयति, दीनतामपकर्षति, उदारचित्ततां विधत्ते, आत्मम्भरितां मोचयति, चेतोवैमल्यं वित“नुते, प्रभुत्वमाविर्भावयति, ततोऽसौ प्रादुर्भूतवीर्योल्लासः प्रणष्टरजोमोहः, परोपकारकरणपरः पुरुषो जन्मान्तरेष्वप्युत्तरोत्तरक्रमेण चारुतरं "सन्मार्गविशेषमासादयति, न पुनस्ततः प्रतिपततीति,” तदिदमवेत्य स्वयमुपेत्यापि ज्ञानादिस्वरूपप्रकाशने यथाशक्ति प्रवर्त्तितव्यं, न पराभ्यर्थनमपेक्षणीयमिति, ततोऽयं जीवोऽत्र भगवन्मते वर्त्तमानो देशकालाद्यपेक्षयाऽपरापरस्थानेषु परिभ्रमन् महता प्रपश्येन कुरुते भव्येभ्यो ज्ञानदर्शनचारित्ररूपमार्गप्रतिपादनं, सेयं घोषणा विज्ञेया, ततस्तथा कथयतोऽस्मात् प्रस्तुतजीवाद्ये मन्दतरमतयस्ते तदुपदिष्टानि ज्ञानादीनि कदाचिद् गृहीयुः, ये पुनर्महामतयस्तेषामेष दोषपुञ्जतां प्राक्तनीनामस्यानुस्मरतां हास्यप्रायः प्रतिभासते, हीलनोचितश्च तेषामयं जीवा, यत्तु न हीलयन्ति स तेषामेव गुणो, न पुनरस्येति, ततोऽयं चिन्तयति — कथं पुनरयं ज्ञानाद्युपदेश: सर्वानुग्राहको भविष्य
Jain Educationational
For Private & Personal Use Only
दानोपायः
परोपकारे गुणाः
॥ १०२ ॥
Kola w.jainelibrary.org