________________
उपमिती पीठबन्धः
मिथ्याभिमान
॥१०१॥
स्तेषां तद्भेषजत्रयं चारुतरमस्त्येव, येऽपि तत्र तत्कालप्रविष्टतया तेन विकलास्ते(ऽन्येभ्य)भ्य एव तद् भूरि लभन्ते, ततोऽसौ वनीपको दिशो निभालयनास्ते, न कश्चित्तजिघृक्षया तत्समीपमुपतिष्ठत इति' तथाऽयमपि जीवश्चिन्तयति, यदुत-विद्यते मे भगवदवलोकना, बहुमतोsहं धर्मसूरिपादानां, नूनमनवरतमनुवर्त्तते ममोपरि सदनुप्रहप्रवणा तद्दया, समुन्मीलिता मे मनसि लेशतः सद्बुद्धिः, श्लाघितोऽहं सम
लोकैस्तद्वारेण, ततःसपुण्यतया किल लोकोत्तमो वर्तेऽहमिति, अतो मिथ्याभिमानं वितनुते, भवति चात्यन्तनिर्गुणस्यापि जन्तोर्महद्भिः कतगौरवस्य चेतसि गतिरेकः, अत्र चेदमेवोदाहरणं, अन्यथा कथमयं जीवः समस्तजघन्यतामात्मनो विस्मृत्येत्थं प्रगल्भते?, ततोऽयं | भावयति-यदि मां विनयपुरस्सरं कश्चिदर्थितया ज्ञानादिस्वरूपं प्रश्नयिष्यति ततोऽहं तत्तस्मै प्रतिपादयिष्यामि, नापरथा, ततस्तादृशाकूतविडम्बितोऽयं भूयांसमपि कालमवतिष्ठमानोऽत्र मौनीन्द्रप्रवचने न कथञ्चित्तथाविधं प्रतीच्छकमासादयति, यतोऽत्र भवने वर्तन्ते
ये जीवास्ते स्वत एव ज्ञानदर्शनचारित्रत्रयं सुन्दरतरमाबिभ्रते, नैवंविध(स्य) सम्बन्धिनमुपदेशमपेक्षन्ते, येऽप्यधुनैव लब्धकर्मविवराः सन्मार्गालाभिमुखचित्तवृत्तयोऽद्यापि विशिष्टज्ञानादिरहिता विद्यन्तेऽत्र केचिज्जीवा तेऽप्यमुष्य प्रस्तुतजीवस्य संमुखमपि न निरीक्षन्ते, यतोऽत्र भग-1
वन्मते विद्यन्ते भूरितमा महामतयः सद्बोधादिविधानपटवोऽन्य एव महात्मानो येभ्यस्ते प्राणिनस्तज्ज्ञानदर्शनचारित्रत्रयमपरिक्वेशेन यथेच्छया प्राप्तवन्ति, ततोऽयं जीवोऽनासादिततदर्थी व्यर्थंकमात्मगुणोत्सेकमनुवर्तमानश्चिरमप्यासीत, न कथञ्चन स्वार्थ पुष्णीयादिति, तत|स्तदनन्तरं यथा 'तेन सपुण्यकेन सा सद्बुद्धिस्तद्दानोपायं परिपृष्टा, तया चोकं-भद्र ! निर्गत्य घोषणापूर्वकं भवता दीयतामिति, ततोऽसौ तत्र राजकुले घोषयन्नुचैःशब्देन यदुत-मदीयं भेषजत्रयं भो लोका! लात लातेत्येवं पर्यटति स्म, ततस्तस्मात्पूत्कुर्वतः केचित्तथाविधास्तुच्छप्रकृतयो गृहीतवन्तोऽन्येषां पुनर्महतां स हास्यप्रायः प्रतिभासते स्म, हीलितश्चानेकाकारं, ततो निवेदितस्तेन सदुद्धर्वृत्तान्तः,
455555
दानोद्घोषणा ११
Jain Educat
i onal
For Private & Personel Use Only
Tww.jainelibrary.org