________________
उपमितौ पीठबन्धः
दानेच्छा
मीभावं नयति, तदिदं भावतो भेषजत्रयसेवनमभिधीयते, ततस्तत्परिणत्या प्रादुर्भवन्त्येवास्य धीधृतिस्मृतिबलाधानादयो गुणविशेषाः, केवलमनेकभवोपात्तकर्मप्रचयप्रभवा भूयांसः खलु रागादयो भावरोगाः, ततो नायमद्यापि नीरोगः संपद्यते, किंतु रोगतानवविशेषो बृहत्तमः संजातः, तथाहि—योऽयं जीवो गाढमनार्यकार्याचरणरतिः स्वसंवेदनेन प्रागनुभूतः सोऽधुना धर्माचरणेन प्रीतिमनुभवन्ननुभूयत इति, ततो यथा 'भेषजत्रयोपभोगमाहात्म्येनैव रोरकालाभ्यस्ततुच्छताक्लीबतालौल्यशोकमोहभ्रमादीन् भावान् विरहय्य स वनीपको मनागुदारचित्तः संपन्न इत्युक्तं' तथाऽयमपि जीवो ज्ञानाद्यभ्यासप्रभावेनैवानादिकालपरिचितानपि तुच्छताविभावानवधीर्य किश्चिन्मानं स्फीतमानस इव संजात इत्युक्तमिति लक्ष्यते, यत्पुनरभिहितं यदुत तेन वनीपकेन सा सद्बुद्धिः पृष्टा हृष्टेन यथा-भद्रे ! केन कर्मणा मयैतद्भेपजत्रयमवाप्तं ?, तयोक्तं स्वयं दत्तमेवात्र लोके लभ्यते, तदेतजन्मान्तरे कचिहत्तपूर्व त्वयेति, ततस्तेन चिन्तितं यदि दत्तं लभ्यते ततः पुनरपि महता यत्नेन सत्पात्रेभ्यः प्रयच्छामि येनेदं सकलकल्याणहेतुभूतं जन्मान्तरेऽपि ममामय्यं संपद्यत इति' तदिदमत्रापि जीवे | समानं वर्त्तते, तथाहि-ज्ञानदर्शनचारित्राचरणजनितं प्रशमानन्दं वेदयमानोऽयं जीवः सद्बुद्धिप्रसादादेवेदमाकलयति, यदुत-यदिदं ज्ञानादित्रयमशेषकल्याणपरम्परासंपादकमतिदुर्लभमपि मया कथञ्चिदवाप्तं, नेदं प्राचीनशुभाचरणव्यतिरेकेण घटते, तदस्यानुगुणं विहितं मया प्रागपि किञ्चिवदातं कर्म येनेदमासादितमिति, ततश्चेयमाविर्भवत्यस्य चिन्ता, यदुत-कथं पुनरेतत्सकलकालमविच्छेदेन मया लक्ष्य(भ्य)ते, ततोऽयमेतद्दानमेवास्य लाभकारणं निश्चिनुते, ततोऽवधारयत्येवं प्रयच्छामीदमधुना यथाशक्ति सत्पात्रेभ्यो येन संपद्यते मे समीहितसिद्धिरिति, यथा च 'असौ द्रमकस्तथा चिन्तयन्नपि महाराजाद्यभिमतोऽहमित्यवलेपेनेदं मन्यते, यदुत-यदि मां कश्चिदागत्य प्रार्थयिष्यति ततोऽहं दास्यामि, नेतरथा, इत्यभिप्रायेण दिसुरपि याचकं प्रतीक्षमाणश्चिरकालमवतिष्ठते स्म, तत्र च मन्दिरे ये लोका
M
॥१०॥
Jan Education
For Private
Personel Use Only