SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ आतङ्कादाअहारत्यागः "भाविअजिणवयणाणं ममत्तरहिआण नत्थि हु विसेसो । अप्पाणंमि परंमि अ तो वजे पीडमुभओ वि ॥१॥" षष्ठं पुनरिदं कारणं, यदुत धर्मचिन्ता-धर्मध्यानं तस्यै, भक्तपानं गवेषयेदिति सर्वत्रानुवर्त्य, इयं हि तदाकुलितचेतसो न स्यात्, आतध्यानसम्भवात् ॥ ३२ ॥ १०२३ ॥ आह-एतत्कारणोत्पत्ती किमवश्यं भक्तपानं गवेष्यं न वेत्याहनिग्गंथो धिइमंतो निग्गंथीवि न करिज छहि चेव । ठाणेहिं तु इमेहिं अणइक्कमणा य से होइ ॥ १०२४ ॥ निर्ग्रन्थो धृतिमान् धर्मचरणं प्रति, निर्ग्रन्था-तपस्विनी सापि न कुर्यात् , भक्तादिगवेषणमिति प्रक्रमः, पडिश्चैव स्थानैः, तु पुनरर्थे, एभिर्वक्ष्यमाणैः किमित्यत आह-सूत्रत्वात् अनतिक्रमणं संयमयोगानामनुल्लङ्घनं, चेति यस्मात् से-तस्य तस्या वा भवति-जायते, अन्यथा तदतिक्रमणसम्भवात् ॥ ३३ ॥ १०२४ ॥ षट् स्थानान्येवाह आयंके उवसग्गे तितिक्खया बंभचेरगुत्तीसुं। पाणिदयातवहेडं सरीरबुच्छेयणट्ठाए ॥१०२५ ॥ ___ आतङ्के-ज्वरादिरोगे उपसर्गे-दिव्यादौ, उभयत्र तन्निवारणार्थमिति गम्यं, तथा तितिक्षया-सहनेन हेतुभूतया, व विषये * इत्याह-ब्रह्मचर्यगुप्तिषु, ता हि नान्यथा सोढुं शक्याः, तथा प्राणिदयाहेतोः, वर्षादौ अप्कायादिजीवरक्षायै तपः चतुर्थादिरूपं तयोर्हेत्वोः, तथा शरीरस्य व्यवच्छेदः-परिहारस्तदर्थ, उचितकाले संलेखन अनशनं वा कुर्वन् , भक्तपानगवेषणं न कुर्यादिति सर्वत्र योज्यम् ॥ ३४॥ १०२५ ॥ Jain Educati o nal For Privale & Personal use only Pawjainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy