________________
उत्तरा० अवचूर्णिः
सामाचार्यध्ययनम्
॥२१६॥
XOXOXOXOXOXOXOXOXOXOXOXOX
तद्वेषयन् केन विधिना कियत्क्षेत्र पर्यटेदित्याह
अवसेसं भंडगं गिज्झा, चक्खुसा पडिलेहए । परमद्धजोअणाओ, विहारं विहरे मुणी ॥ १०२६ ॥ अपगतशेष अपशेषं, कोऽर्थः ?-समस्तं भाण्डकं-उपकरणं गृहीत्वा चक्षुषा प्रत्युपेक्षेत विशेषत इति गम्यं सामान्यतो ह्यप्रत्युपेक्षितस्य ग्रहणमपि न युज्यते एव यतीनां, उपलक्षणत्वात् तदादाय परमुत्कृष्टमर्द्धयोजनाद्-अर्द्धयोजनमाश्रित्य, परतो हि क्षेत्रातीतमशनादि स्यात् , विहरत्यस्मिन् प्रदेशे इति विहारस्तं विहरेत्-विचरेत् मुनिः॥ ३५ ॥ १०२६ ॥ इत्थं च विहृत्योपाश्रयं चागत्य गुर्वालोचनादिपूर्व भुक्त्वा च यत्कुर्यात्तदाह
चउत्थीए पोरिसीए, निक्खिवित्ता ण भायणं ।
सज्झाणं च तओ कुजा, सवभावविभावणं (दुक्खविमोक्खणं पा०)॥१०२७ ॥ चतुझं पौरुष्यां निक्षिप्य प्रत्युपेक्षणापूर्व बद्ध्वा भाजन-पात्रं स्वाध्यायं ततः कुर्यात् सर्वभावा-जीवादयस्तेषां विभावनंप्रकाशकम् ॥ ३६॥ १०२७॥ __पोरिसीए चउब्भाए, वंदित्ता ण तओ गुरुं । पडिक्कमित्ता कालस्स, सिजं तु पडिलेहए ॥ १०२८ ॥
पौरुष्याः प्रक्रमात् चतुर्थ्याश्चतुर्भागे-चतुर्थाशे, शेषे इति गम्यं, वन्दित्वा तत इति स्वाध्यायकरणानन्तरं गुरु-आचार्यादि | प्रतिक्रम्य कालस्य शय्यां वसतिं, तुः पूरणे, प्रतिलेखयेत् ॥ ३७॥ १०२८ ॥ ततश्च
पासवणुचारभूमि च, पडिलेहिज जयं जई । काउस्सग्गं तओ कुज्जा, सबदुक्खबिमुक्खणं ॥१०२९ ॥
| भक्तगवेषणे विधिः
॥२१६॥
Jain Educatio
For Privale & Personal use only
A
jainelibrary.org