SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ (OXCXCX अथैनामेव भङ्गकदर्शनद्वारेण साक्षात्सदोषां निर्दोषां च किञ्चिद्विशेषतो वक्ति अणूणाइरित्तपडिलेहा अविवचासा तहेव य । पढमं पयं पसत्थं सेसाणि उ अप्पसत्थाणि ॥ १०१९ ॥ ऊना चासौ अतिरिक्ता च २ सा न तथा प्रतिलेखना, इह च न्यूनाधिक्ये प्रस्फोटनां प्रमार्जनां वेलां चाश्रित्य वाच्ये, न विद्यते विविधो व्यत्यासो यस्यां सा पुरुषोपधिविपर्यासरहिता कार्येति शेषः, अत्र च त्रिभिर्विशेषणपदैरष्टौ भङ्गाः सूचिताः स्युः, एषु च कः शुद्धः ? को वा अशुद्ध ? इत्याह- प्रथमं पदम् - इहोपदर्शिताद्यभङ्गरूपं प्रशस्तं - निर्दोषतया श्लाघ्यं, शेषाणि तु प्रक्रमात् पदानि अप्रशस्तानि तेषु न्यूनताद्यन्यतमदोषसम्भवात् ॥ २८ ॥ १०१९ ॥ निर्दोषामप्येतां कुर्वता यत्त्याज्यं तत्क्कांक्वोपदेष्टुमाह पडिलेहणं कुणतो मिहो कहं कुणइ जणवयकहं वा । देह व पच्चक्खाणं वाएइ सयं पडिच्छइ वा ॥ १०२० ॥ प्रतिलेखनां कुर्वन्मिथः कथां - परस्परसम्भाषणात्मिकां करोति, जनपदकथां वस्त्रादिकथोपलक्षणमेतत् ददाति च प्रत्याख्यानमन्यस्मै, वाचयत्यन्यं पाठयति, स्वयं प्रतीच्छति वा, आलापकं गृह्णाति य इति गम्यम् ॥ २९ ॥। १०२० ॥ सकिमित्याह पुढवी आउक्काए तेजवाकवणस्सइतसाणं । पडिलेहणापमत्तो छण्हंपि विराहओ होइ ।। १०२१ ॥ स्पष्टा, नवरं पृथिव्यप्काययोः, प्रतिलेखना प्रमत्तो मिथःकथादिना अनवहितः षण्णामप्यास्तामेककादीनामित्यपेरर्थोः विराधकश्चैव, प्रमत्तो हि कुम्भकारशालादौ स्थितो जलभृतघटादिकमपि प्रलोठयेत्, ततस्तज्जलेन मृदग्निबीजकुन्थ्वादयः Jain Educationational For Private & Personal Use Only •*• *• X X X * * * * • *• *••*•* प्रतिलेख नायां कथादिके पटकायविराधना .ww.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy