________________
उत्तरा०
अवचूर्णिः
॥ २१४ ॥
वस्त्रस्य झाटना चतुर्थी, विक्षेपणं विक्षिप्ता पञ्चमीति गम्यं, रूढित्वात् स्त्रीत्वं, सा च प्रत्युपेक्षितवस्त्रस्यान्यत्राप्रत्युपेक्षिते क्षेपणं प्रत्युपेक्ष्यमाणो वा वस्त्राञ्चलं यदूर्ध्वं क्षिपति, वेदिका पष्ठी, सा च पञ्चधा, यदागम: - " वेइआ पंचविहा पण्णत्ता, तंजहावे अहो वे तिरिय वे० उत्तओ वे० एगओ वेइआ, तथा उड्ड वेइआ - उवरिजणुगाणं हत्थे काऊण पडिलेहइ, अहो अहो जन्नुगाणं हत्थे काउं २, तिरिअ वे० संडासयाणमन्मे ह० ३, दुहओ वे० बाहाणमंतरे दोवि जन्नुगा काऊण प० ४, एगओ वेइआ - वे० एगं जन्नुगं बाहाणमंतरे का० ५,” एते षड्रदोषाः प्रतिलेखनायां वर्ज्याः ॥ २६ ॥ १०१७ |
तथा-
पसिढिलपलंबलोला एगामोसा अणेगरूवधुणा ( या पा० ) । कुणति पमाणि पमायं संकिय गणणोवगं कुज्जा ॥ १०९८ ॥
प्रशिथिलं नाम दोषो यद्दृढमतिरायतं वा वस्त्रं गृह्यते, प्रलम्बो यद्विषमग्रहणेन प्रत्युपेक्षमाणवस्त्रकोणानामालम्बनं, लोला यद्भूमौ करे वा वस्त्रस्य लोलनं, एषां द्वन्द्वः, एकामर्शनम्, एकामर्शा रूढितः स्त्रीत्वं, मध्ये गृहीत्वा ग्रहणदेशं यावदुभयतो वस्त्रस्य यदेककालं सङ्घर्षणं-आकर्षणं, अनेकरूपा सङ्ख्या त्रयातिक्रमेण युगपदनेकवस्त्रग्रहणलो वा धुनना, तथा यत्करोति प्रमाणप्रस्फोटनादिसङ्ख्यारूपे प्रमादं अनवधानं यच्च शङ्किते प्रमादतः प्रमाणं प्रति शङ्कोत्पत्तौ गणनां कराङ्गुलिरेखास्पर्शनादिना एकद्वित्रिसङ्ख्यात्मिकामुपगच्छति - उपयाति गणनोपगं यथा स्यादेवं गम्यत्वात् प्रस्फोटनादि कुर्यात्, सोऽपि दोषो वर्ज्य इति पूर्वसूत्रात् सर्वत्रानुवर्त्यते, उक्तदोषाभावे निर्दोषा प्रत्युपेक्षणा इत्यर्थादुक्तम् ॥ २७ ॥ १०१८ ॥
Jain Educationtional
For Private & Personal Use Only.
सामाचार्य
ध्ययनम् २६
प्रतिलेखनायां परि
हार्याः दोषाः
॥ २१४ ॥
jainelibrary.org