SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ कुर्यात् तृतीयं च पुनरिदं कुर्यात् यत् प्रमृज्यात्, कोऽर्थः ?, प्रत्युपेक्ष्य-प्रस्फोव्य च हस्तगतान् प्राणिनः प्रमृज्यादित्यर्थः ॥ २४ ॥ १०१५॥ __ कथे पुनः प्रस्फोटयेत् प्रमृज्याद्वेत्याह अणचावियं अवलियं अणाणुबंधिं अमोसलिं चेव ।। छप्पुरिमा नव खोडा पाणीपाणिविसोहणं (पमजणं पा०)॥१०१६॥ अनर्तितं वस्त्रं वपुर्यथा नर्तितं न स्यात्, अवलितं यथाऽऽत्मनो वस्त्रस्य च मोटनं न स्यात् , अनुबन्धेन-नैरन्तर्यलक्षणेन युक्तमनुपन्धि न तथा अनुबन्धिकः-अधोऽलक्ष्यमाणविभागं यथा न स्यात् , सूत्रत्वात् आमर्शवत् तिर्यगूर्ध्वमधो वा कुड्यादिपरामर्शवत् यथा न स्यात् , एवं षट्पू: पूर्व क्रियमाणतया तिर्यकृतवस्त्रप्रस्फोटनात्मकाः क्रियाविशेषा येषु ते षट्पूर्वाः, नव खोटकाः समयप्रसिद्धस्फोटनात्मकाः, कर्त्तव्या इति शेषः, पाणी-पाणितले प्राणानां-कुन्थ्वादिसत्त्वानां विशोधन-प्रस्फोटनत्रिकानन्तरं त्रिकसयं प्राणविशोधनं च कर्त्तव्यम् ॥ २५ ॥ १०१६॥ __ प्रतिलेखनादोषपरिहारार्थमाह आरभाडा सम्मदा वजेयवा य मोसली तइया । पप्फोडणा चउत्थी विक्खित्ता वेइया छट्ठा ॥१०१७॥ आरभटा-विपतरीकरणं, त्वरितं वाऽन्यान्यवस्त्रग्रहणं संमर्दनं समर्दारूढित्वात् स्त्रीलिङ्गता वस्त्रान्तः कोणसंक्लनं उपधेर्वा उपरि निषदनं, वर्जयितव्येति सर्वत्र योज्यं, चः पूरणे, मोसलि-तिर्यगूर्ध्वमधो वा घट्टनात् , प्रस्फोटनेन प्रकर्षेण रेणुगुण्डितस्यैव विधिः Jain Educati o nal For Private & Personal use only Navjainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy