SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ FoXXXXOXOXOXOXOXOXOXOXo द्वितीयां पौरुषी ध्यान-सूक्ष्मसूत्रार्थलक्षणं ध्यायेत्-चिन्तयेत् , तृतीयायां निद्रामोक्षः पूर्व निरुद्धायामुत्कलना निद्रामोक्षः, स्वाप इत्यर्थः, तं कुर्यादिति सर्वत्र प्रक्रमः, वृषभापेक्षं चैतत् , सामस्त्येन तु प्रथमचरमप्रहरजागरणमेव, तथा चागमः-'सबेवि | पढमजामे दुन्नि उवसहाण आइमा जामा । तइओ होइ गुरूणं चउत्थओ होइ सबेसि ॥१॥॥ १८ ॥१००९॥ सम्प्रति रात्रिचतुर्भागपरिज्ञानोपायं दर्शयन् समस्तयतिकृत्यमाहजं नेई जया रत्तिं, नक्खत्तं तंमि नहचउभाए। संपत्ते विरमिजा, सज्झाय पओसकालंमि ॥१०१०॥ तम्मेव य नक्खत्ते गयणं चउभागसावसेसंमि । वेरत्तियपि कालं पडिलेहित्ता मुणी कुजा ॥ १०११॥ यन्नयति-प्रापयति समाप्तिमिति गम्यं, यदा रात्रिं नक्षत्रं तस्मिन्नभश्चतुर्भागे सम्प्राप्ते विरमेत-निवर्तेत स्वाध्यायात् , प्रदोष-1x काले रात्रिमुखे प्रारब्धादिति शेषः, तस्मिन्नेव नक्षत्रे प्रक्रमात्प्राप्ते क्वेत्याह-गगने, कीदृशे? चतुर्भागेन गम्येन सावशेष-सोद्धरित चतुर्भागसावशेष तस्मिन् वैरात्रिकं तृतीयं, अपिशब्दात् निजनिजसमये प्रादौषिकादिकं च कालं प्रत्युपेक्ष्य-प्रतिजागर्य मुनिः कुर्यात्, करोतेः सार्वधात्वर्थाद्गुलीयात् , इह च काक्वोपलक्षणद्वारेण प्रथमादिषु नभश्चतुर्भागेषु सम्प्राप्तेषु तस्मिन्नेव नक्षत्रे | प्रथमादयः प्रहरा इत्युक्तं भवति ॥ १९-२०॥ १०१०-१०११॥ इत्थं सामान्येन दिनरात्रिकृत्यमुपदय पुनर्विशेषतस्तदेव दर्शयंस्तावद्दिनकृत्यमाह पुबिल्लंमि चउभागे, पडिलेहित्ता ण भंडयं । गुरुं वंदित्तु सज्झायं, कुजा दुक्खविमुक्खणिं ॥ १०१२॥ पूर्वस्मिंश्चतुर्भागे-प्रथमपौरुषीलक्षणे प्रक्रमादिनस्य प्रत्युपेक्ष्य भाण्डकं वर्षाकल्पाद्युपधिं, आदित्योदयसमये इति शेषः॥२१॥१०१२|| रात्रिचतुगज्ञानो पायः For Private & Personal use only
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy