SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ SXOXOXOXOXOXOXOXOXOXOXOXOX वा तदन्यतः स्यादिति, उभयत्र वा स्वकरणपरकरणे उपलक्षणमित्युच्छासनिःश्वासौ त्यक्त्वा सर्वकार्येष्वपि स्वपरसम्बन्धिष्वादौ गुरूणां प्रच्छनं आप्रच्छनेत्युच्यते, तथा स्वपरसत्के सर्वकृत्ये गुरुनियुक्तेन पुनः प्रवृत्तिकाले यद्गुरुपच्छनं सा प्रतिप्रच्छा ॥५॥९९६॥ छंदणा दबजाएणं, इच्छकारो अ सारणे । मिच्छाकारो अनिंदाए, तहक्कारो पडिस्सुए ॥ ९९७ ॥ तथा छन्दना-शेषयतिनिमन्त्रणात्मिका, विधेयेति शेषः, द्रव्यजातेन-अशनादिद्रव्यविशेषेण, प्राग्गृहीतेनेति गम्यं, इच्छास्वाभिप्रायस्तया करणं तत् कार्यनिर्वर्त्तनमिच्छाकारः, सारणे इत्यौचित्यत आत्मनः परस्य वा कृत्यं प्रति प्रवर्त्तने, तत्रात्मसारणे छंदणाता यथा इच्छाकारेण युष्मच्चिकीर्षितं कार्यमिदमहं करोमीति, परसारणे च मम पात्रलेपनादि इच्छाकारेण कुरुतेति, तथा मिथ्ये- Xउपसंपदात्यलीकं तत्करणं मिथ्याकारो-मिथ्येदमिति प्रतीतिः, स चात्मनो निन्दायां वितथाचरणे "धिगिदं मया कृत'मिति रूपायां, तथाकार-इदमित्थमेवेत्यभ्युपगमः, प्रतिश्रुते-प्रतिश्रवणे वाचनादीनां गुरोः पार्थात् ॥ ६॥ ९९७ ॥ विवरणं अब्भुट्ठाणं गुरुपूया,अच्छणे उवसंपया। एवं दुपंचसंजुत्ता (एसा दसंगा साहूणं पा०), सामायारी पवेइया ॥ ९९८ ।। अभीत्याभिमुख्येनोत्थानम्-उद्यमनमभ्युत्थानं, तच्च गुरुपूजायां, सा च गौरवार्हाणामाचार्यबालग्लानादीनां यथोचिताहारभेषजादिसम्पादनं, इह च सामान्योक्तावप्यभ्युत्थानं निमन्त्रणारूपमेव ग्राह्यं, अच्छणेत्ति-आसने प्रक्रमादाचार्यान्तरादिपार्थावस्थाने उप-सामीप्येन सम्पदनं-गमनं उपसम्पत्, इयन्तं कालं भवदन्तिके मया वसितव्यमित्येवंरूपा, सा च ज्ञानार्थ यावद् । 'उत्तरा०३६ Jain Education D ena For Private & Personal use only Lovlainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy