________________
न कार्य-न प्रयोजनं, मम भिक्षया क्षिप्रं निष्क्राम-प्रव्रज द्विज-विन!, निष्क्रमणेनैव मम कार्यमिति भावः, किमेवमुपदिश्यते इत्याह-मा भ्रमीः-मा पर्यटीः, यद्वा मा भ्रमिष्यसि भयानि-इहलौकिकभयादीनि आवर्ता इव आवर्ता यस्मिन्नसौ भयावतस्तस्मिन् घोरे-रौद्रे संसारसागरे, अनेन विपर्यये दोष उक्तः॥४०॥९८६ ॥ एतदेव समर्थयितुमाह
उवलेवो होइ भोगेसु, अभोगी नोवलिप्पई। भोगी भमइ संसारे, अभोगी विप्पमुच्चई ॥९८७॥ उपलेपः-कर्मोपचयरूपो भवति भोगेषु, भुज्यमानेष्विति गम्यं, अभोगी-अभोगवान् न-नैव चोपलिप्यते, अतश्च भोगी भ्रमति संसारे, अभोगी विप्रमुच्यते, मुक्तिं प्राप्नोतीत्यर्थः॥४१॥९८७॥ सो उल्लो सुको य दो छूढा, गोलया मट्टियामया। दो वि आवडिया कुड्डे, जो उल्लो सोऽत्थ लग्गई ॥९८८॥
इह च गार्हस्थ्ये भोगित्वं, निष्क्रमणे तु तदभावो गृद्ध्यभाव इति, गृहभावस्य सदोषत्वान्निष्क्रमणमेव युक्तमिति भावः, एतदेव दृष्टान्तेन द्रढयति-आर्द्रः शुष्कश्च द्वौ-उभौ क्षिप्तौ गोलको-पिण्डको मृत्तिकामयौ, द्वावग्यापतितौ-प्राप्तौ कुड्ये-भित्ती, ततः किमित्याह-यः आर्द्रः सोऽत्र-अनयोर्मध्ये लगति-श्लिष्यति प्रक्रमात् कुड्ये ॥४२॥ ९८८॥
दार्शन्तिकयोजनामाह
एवं लग्गति दुम्मेहा, जे नरा कामलालसा । विरत्ता उ न लग्गति, जहा से सुक्कगोलए ॥ ९८९॥ एवं लगन्ति प्रस्तावात् कर्मणा दुर्मेधसो-दुर्बुद्धयो ये नराः कामलालसा-विषयलम्पटाः, विरक्ताः-कामभोगपराअखाः पुनः उत्तरतुशब्दस्यैवकारार्थस्य भिन्नक्रमत्वान्नैव लगन्ति-कमर्णा श्लिष्यन्ते यथा शुष्को गोलकः ॥ ४३ ॥ ९८९॥
आईशुष्क | गोलक
दृष्टान्तेन मुनेर्निष्क्रम
णोपदेशः
Jain Educatio
n
al
For Privale & Personal use only
jainelibrary.org