________________
७९ ॥ किमिदं स्वबुद्ध्यवामिणायओ। सबकम्भावस्मातकः केवली, सुरु
| हेतुप्रैषादिसम्पादनरूपेण, कर्माभावे हि ब्राह्मणादि व्यपदेशा असंत एवेति ब्राह्मणप्रक्रमे च यच्छेषाऽभिधानं तद् व्याप्तिदर्शनार्थम् ॥ ३३ ॥ ९७९ ॥ किमिदं स्वबुद्ध्यैवोच्यते ? इत्याह
एए पाउक्करे बुद्धे (करा धम्मा पा०), जेहिं होइ सिणायओ। सबकम्मविणिम्मुकं, तं वयं बूम माहणं ॥९८० ।। ___एतान्-प्रागुक्तान् अहिंसादीन् अर्थान् प्रादुरकार्षीत्-प्रकटितवान् बुद्धः-सर्वज्ञः, यैर्भवति स्नातकः-केवली, सुब्व्यत्ययात् सर्वकर्मभिः विनिर्मुक्त इव प्रत्यासन्नमुक्तितया सर्वकर्मविनिमुक्तः, तमुक्तगुणं तत्त्वतः स्नातकं वा वयं ब्रूमो ब्राह्मणम् ॥३४॥९८०॥ अथोपसंहरति
एवं गुणसमाउत्ता, जे हवंति दिउत्तमा । ते समत्था उ उद्धत्तुं, परं अप्पाणमेव य ॥९८१ ॥ एवमुक्तप्रकारैः गुणः-अहिंसादिभिः समायुक्ताः-समन्विताः ये भवन्ति द्विजोत्तमाः ते समर्थाः-शक्ताः, तुः पूरणे, उद्धर्तु संसारादिति गम्यं, अर्थात् मुक्तिपदे स्थापयितुं परं-अन्यं आत्मानमेव वा ॥ ३५ ॥९८१॥ उक्त्वा चेदं स्थितो भगवान् , ततश्च
एवं तु संसए छिन्ने, विजयघोसे य बंभ( माह पा०)णे।
समु( मा प्र०)दाय (सजाणतो पा०) तओ तं तु, जयघोसं महामुणिं ॥ ९८२॥ गाथा ४, एवमुक्तप्रकारेण तुर्वाक्यालङ्कारे संशये छिन्ने विजयघोषो-विजयघोषो नामा, चः पूरणे ब्राह्मणः, आर्षत्वात् समादाय-सम्यगवधार्य तकां-प्रक्रमात् जयघोषवाचं तं च जयघोषमुनि यथैष मम भ्राता एष एव च महामुनिरिति॥३६॥९८२॥
ब्राह्मणस्वरूपोपसंहारः
JainEducatS
m
ational
For Private & Personal use only
ल
mr.jainelibrary.org