________________
यज्ञी
उत्तरा० अक्चूर्णिः
याख्यं
पञ्चविं
॥२०७॥
शतितमध्ययनम्
२५
पशुवधादि प्रवर्त्तनेन, तयोस्तद्वलाधायकत्वादित्यर्थः, अतो नैतद्योगात् ब्राह्मणः पात्रभूतो भवति, किंतु अनन्तरोक्तगुण एवेति भावः ॥ ३० ॥ ९७६ ॥
अन्यच्चनवि मुंडिएण समणो, न ॐकारेण बंभणो। न मुणी रणवासेणं, कुसचीरेण न तावसो॥९७७ ॥ नेति निषेधे, अपिः पूरणे, मुण्डितेन श्रमणो-निर्ग्रन्थः, नैव ॐकारेणोपलक्षणत्वात् ॐभूर्भुवःस्वरित्याधुच्चाररूपेण ब्राह्मणः, न मुनिः अरण्यवासेन, कुशः-दर्भस्तन्मयं चीवरं तेन वल्कलेनोपलक्षणमेतत् तापसो, भवतीति सर्वत्र शेषः ॥ ३१॥ ९७७ ॥
तर्हि कथममी स्युरित्याह
समयाए समणो होइ, बंभचेरेण बंभणो। नाणेण य मुणी होई, तवेणं होइ तावसो ।। ९७८ ।। समतया-रागद्वेषाभावरूपतया श्रमणो भवति, तथा ब्रह्मणश्चरणं ब्रह्मचर्य, ब्रह्म चेह प्रागुक्ताहिंसादिरूपं तेन ब्राह्मणः, ज्ञानेन-हिताहितावगमरूपेण मुनिर्भवति, तपसा-बाह्याभ्यन्तरभेदेन, सर्वत्राभिधानान्यथानुत्पत्तिरिह हेतुः॥ ३२॥ ९७८ ॥
ननु चान्वर्थवत्त्वेऽभिधानस्यैष हेतुः, तच्च डित्थादिवदन्यथाऽपि स्यादत आहकम्मुणा बंभणो होइ, कम्मुणा होइ खत्तिओ । वइस्सो कम्मुणा होइ, सुद्दो हवइ कम्मणा ॥ ९७९॥ कर्मणा-क्रियया ब्राह्मणो भवति, उक्तं हि-"क्षमा दानं दमो ध्यानं, सत्यं शौचं धृतिघृणा । ज्ञानं विज्ञानमास्तिक्यमेतद् | ब्राह्मणलक्षणम् ॥१॥" तथा कर्मणा-क्षतत्राणलक्षणेन क्षत्रियो भवति, वैश्यः पाशुपाल्यादिना कर्मणा, शूद्रः शोचनादि
XXXOXXXXXXXXXX
यथार्थब्राह्मणखरूपम्
॥२०७॥
Jain Educational
For Private & Personal use only
Finelibrary.org