________________
इत्थं च मूलगुणयोगात्तात्त्विकं ब्राह्मणमुक्त्वोत्तरगुणयोगतस्तमेवाहअलोलुयं मुहाजीविं, अणगारं अकिंचणं । असंसत्तं गिहत्थेहि, तं वयं बूम माहणं ॥ ९७५ ॥ ___ अलोलुपं-आहारादिष्वलम्पटं, सुब्ब्यत्ययान् मुधाजीविनं-अज्ञातोञ्छवृत्तिजीविनं, असंसक्तं-असम्बद्धं, कैः ? गृहस्थैः, तृतीयार्थे सप्तमी, अनेन पिण्डविशुद्ध्याख्य उत्तरगुण उक्तः, तमुक्तगुणयुक्तमपीदृशं सन्तं वयं ब्रूमो ब्राह्मणम् ॥ २८ ॥ ९७५ ॥ ___ क्वचित्त्वेषाऽपि गाथा दृश्यतेज(च प्र०)हित्ता पुवसंजोगं, णाइसंगेय बंधवे । जोन सज्जइ भोएहिं (एएसुप्र०), तं वयं बूम बंभणं (माहणं प्र०) |
॥(प्र०१) त्यक्त्वा पूर्वसंयोग-मात्रादिसम्बन्धं ज्ञातिसंयोगान्-श्वश्रुसम्बन्धान , चस्य भिन्नक्रमत्वात् बान्धवांश्च-छात्रादीन् , शेष स्पष्टं, अनेनापि चाप्तिनिस्पृहताभिधानेनोत्तरगुणा आक्षिप्ता भवन्ति ॥ २९ ॥ प्र०१॥
स्यादेत वेदाध्ययनं यजनं च भवात् त्रायकमिति तद्योगादेव पात्रभूतो ब्राह्मणो, न तु यथा त्वयोक्त इत्याशङ्कयाहपसुबंधा (बद्धा पा.) सबवेया, जहं च पावकम्मुणा । न तं तायंति दुस्सीलं, कम्माणि बलवंतिह ॥९७६ ॥
पशनां-छागानां बन्धो-विनाशो नियमनं यैर्हेतुभिस्ते अमी पशुबन्धाः, "श्वेतं छागमालभेत वायव्यां दिशि भूतिकाम" इत्यादि | | वाक्योपलक्षितः, सर्ववेदाः ऋग्वेदादयः इष्ट-यजनं, चः समुच्चये, पापकर्मणा-पापहेतुभूतपशुबन्धाद्यनुष्ठानेन, किमित्याह-ननैव तं प्रक्रमात् वेदाध्येतारं यष्टारं वा त्रायन्ते भवादिति गम्यं, कीदृशं ?-दुःशीलं-ताभ्यामेव हिंसादिप्रवर्त्तनेन दुराचारं, किमिति ?, यतः कर्माणि-ज्ञानावरणादीनि बलवन्ति-दुर्गतिनयनं प्रति समर्थानि, इह वेदाध्ययने यजने च भवन्तीति गम्यं,
यथार्थब्राह्मणस्वरूपम्
Sain Education
For Privale & Personal use only