________________
रमते आर्याणां-तीर्थकृतां वचने-आगमे आर्यवचने, सर्वत्र निस्पृहत्वेनागमार्थानुष्ठानतया तत्र रतिमान् स्यादित्यर्थः, अनेन निस्पृहतोक्ता, तं वयमित्यादि प्राग्वत् ॥२०॥९६७ ॥ तथा
जायरूवं म(ज पा.)हामटुं, निद्वंतमलपावगं । रागद्दोसभयाईयं, तं वयं ब्रूम माहणं ॥९६८ ॥ जातरूपं-सुवर्ण यथा आमृष्टं-तेजःप्रकर्षारोपणाय मनःशिलादिना समन्तात् परामृष्टं, अनेनास्य बाह्यो गुण उक्तः, पूर्वापरनिपातस्यातन्त्रत्वात्पावकनिर्मातमलं-ज्वलनदग्धकिट्ट, अनेन चान्तरगुणः, ततो जातरूपवत् बाह्याभ्यन्तरगुणान्वितः, अत एव रागद्वेषभयातीतोऽतिक्रान्तो, रागादिरहित इत्यर्थः, य एवंविधस्तं वयं घूमो ब्राह्मणम् ॥ २१ ॥९६८ ॥
[तवस्सियं किसं दंतं, अवचियमंससोणि। सुव्वयं पत्तनिव्वाणं, तं वयं बूम माहणं ॥९६९॥] तवेति सुगमम् ॥ २२ ॥ ९६९ ॥
किञ्चतसे पाणे वियाणित्ता, संगहेण य (स पा०) थावरे । जो न हिंसह ति(वि पा०)विहेणं, तं वयं बूम माहणं ॥९७०।।
त्रसप्राणिनो विज्ञाय सङ्ग्रहेण-सङ्केपेण चशब्दाद्विस्तरेण च, तथा स्थावरान्-पृथिव्यादीन् यो न हिनस्ति त्रिविधेन-मनोवाक्कायरूपेणेति गम्यं, तथा चारण्यकेऽप्युक्तं "यदा न कुरुते पापं, सर्वभूतेषु दारुणम् । कर्मणा मनसा वाचा, ब्रह्म संपद्यते तदा ॥१॥" ॥ २३ ॥ ९७०॥
कोहा वा जइ वा हासा, लोहा वा जइ वा भया । मुसं न वयई जो उ, तं वयं बूम माहणं ॥९७१ ॥
यथार्थब्राह्मणस्वरूपम्
।
Jain Educati
o
nal
For Privale & Personal use only
Vlaw.jainelibrary.org