________________
उत्तरा०
अवचूर्णिः
॥ २०५ ॥
Jain Education
OXO
विधधर्मवेदिनो यागमेवं कुर्युः, तथा गूढा - बहिः संवृतिमन्तः, केन हेतुना ?, स्वाध्यायतपसा - वेदाध्ययनोपवासादिना, अन्तश्च इबस्य भिन्नक्रमत्वात् भस्मछन्नान्नय इव, ते हि बहिरुपशमभाज आत्मानः अन्तश्च कषायवत्तया ज्वलिता; एवं च न तत्त्वतो भवदभिमतब्राह्मणानां ब्राह्मण्यं तदभावाच्चात्मनः परस्य चोद्धरणेऽक्षमत्वेन पात्रत्वं दूरापास्तमेवेति भावः ॥ १८ ॥ ९६५ ॥ कस्तर्हि भवदभिप्रायेण ब्राह्मणो ? यः पात्रमित्याह
जो लोए बंभणो वृत्तो, अग्गी वा महिओ जहा । सदा कुसलसंदि, तं वयं बूम माहणं ।। ९६६ ।। यो लोके ब्राह्मण उक्तः–प्रतिपादितः कुशलैरिति गम्यं वा पूरणे, यथेत्यौपम्ये भिन्नक्रमश्च ततो यथाऽग्निर्महितो यत्तदोनित्याभिसम्बन्धात्तथा महितः -पूजितः सन् सदा-सर्वकालं, उपसंहारमाह कुशलैः- तत्त्वाभिज्ञैः संदिष्टं कुशलसंदिष्टं तं उक्तरूपं वयं ब्रूमो ब्राह्मणं, यदेव हि लोके विज्ञोपदिष्टं तदेव वस्त्वभ्युपगमार्हमिति भावः ॥ १९ ॥ ९६६ ॥
इत उत्तरसूत्रैः कुशलसंदिष्टस्वरूपमेव क्वचित्कथञ्चिदनुवदन् स्वाभिमतं ब्राह्मणमाह
जो न सज्जइ आगंतु, पवयंतो न सोअई । रमए अज्जवयणंमि, तं वयं ब्रूम माहणं ॥ ९६७ ॥
यो न स्वजते - नाभिष्वङ्गं करोति आगन्तुं प्राप्तुं स्वजनादिस्थानमिति गम्यं, आगतो वा ततः प्रव्रजन् स्थानान्तरं गच्छन् न शोचते, यथा कथमनुना विना भविष्यामीति ?, यद्वा यो न सजत्यागन्तुं प्रव्रज्या पर्यायाद्गार्हस्थ्यपर्यायमिति गम्यं, तथा प्रव्रजन् - प्रव्रज्यां गृह्णन् न शोचते, न विद्यते, किंत्विदमेव नरजन्मफलमिति मन्यमानः सरभसमेवाभिनिष्क्रामति, अत एव
For Private & Personal Use Only
****X*XaxaxaxaxaxaxaxX OX
यज्ञी
याख्यं
पञ्चविं
शतितम
मध्ययनम्
२५
यथार्थ
ब्राह्मण
स्वरूपम्
॥ २०५ ॥
ainelibrary.org