________________
OXOXOXOXOXOXOXOXOXOXOXOKO
सर्वपुराणज्येष्ठं, उक्तं च “नवनीतं यथा दनश्चन्दनं मलयादिव । ब्रह्माण्डं वै पुराणेभ्यस्तथा प्राहुर्मनीषिणः॥१॥” तद्वचश्चेदं"इह हि इक्ष्वाकुकुलवंशोद्भवेन नाभिसुतेन मरुदेव्या नन्दनेन महादेवेन ऋषभेन दशप्रकारो धर्मः स्वयमेव चीर्णः, केवलज्ञानलम्भाच्च महर्षिणो ये परमेष्ठिनो वीतरागाः स्नातका निर्ग्रन्था नैष्ठिकास्तेषां प्रवर्त्तित आख्यातः प्रणीतस्त्रेताययामादा" | वित्यादि ॥ १६ ॥ ९६३ ॥ काश्यपस्यैव धर्ममुखत्वख्यापनार्थ माहात्म्यमाह
जहा चंदं गहाइया, चिटुंते पंजलीउडा। वंदमाणा नमसंता, उत्तम मणहारिणो
(जहा चंदे गहाईए, चिटुंती पंजलीउडा । णमंसमाणा वंदंती, उद्धत्तमणहारिणो पा०)॥९६४॥ यथा चन्द्र ग्रहादिका, आदेर्नक्षत्रादिपरिग्रहः, कृतप्राञ्जलयः वन्दमानास्तुवन्तः नमस्यन्तो नमस्कुर्वन्तः उत्तम-प्रधानं मनोहारिणः अविनीततया प्रभुचित्ताक्षेपकारिणस्तिष्ठन्तीति सम्बन्धः, तदैनमपि भगवन्तं देवेन्द्राद्याः समस्तसुरासुरनरसमूहा इत्युपस्कारः, अनेन प्रश्नचतुष्टयप्रतिवचनमुक्तम् ॥ १७ ॥९६४ ॥
सम्प्रति पञ्चमप्रश्नमधिकृत्याहअजाणगा जन्नवाई, विजामाहणसंपया। मू(गू पा०)ढा सज्झायतवसा (स्स पा०), भासच्छन्ना इवग्गिणो॥९६५॥
अज्ञानाना-अतत्त्ववेदिनः, कासां ? सुब्व्यत्ययात् विद्याब्राह्मणसम्पदा, तत्र विद्या-आरण्यकब्रह्माण्डपुराणात्मिकास्ता एव ब्राह्मणसम्पदस्तासां, तात्त्विकब्राह्मणानां हि निष्किञ्चनत्वेन विद्या एव सम्पदः, तद्विज्ञत्वे च कथमेते बृहदारण्यकायुक्तदश
काश्यपस्य धर्ममुख्यता
उत्तरा०३५
२५/
JainEducation
For Private & Personal use only
M
w.jainelibrary.org.