________________
उत्तरा० अवचूर्णिः
॥२०४॥
कथं पृष्टवानित्याह
यज्ञीवेआणमित्यादि गतार्थ, नवरं ब्रूहि-व्यक्तमभिधेहि, पुनःपुनः ब्रूहीत्युच्चारणमादरख्यापनार्थ, एतदुक्तरूपं मे-मम संशेते- याख्य |ऽस्मिन् मन इति संशयस्तं संशयविषयं वेदमुखादि साधो ! कथय पृष्टः सन् इत्युपसंहारवचनम् ॥ १४-१५॥ ९६१-९६२॥ पञ्चविंइत्थं पृष्टो मुनिराह
शतितम___ अग्गिहुत्तमुहा वेया, जन्नट्ठी वेयसा मुहं । नक्खत्ताण मुहं चंदो, धम्माणं कासवो मुहं ॥ ९६३ ।।
मध्ययनम् अग्निहोत्रेत्यादि गाथा अष्टादश, अग्निहोत्रमग्निकारिका सा चेह, “कर्मेन्धनं समाश्रित्य, दृढा सद्भावनाहुतिः।धर्मध्यानाग्निना कार्या, दीक्षितेनाग्निकारिका ॥१॥” इत्यादिरूपा गृह्यते, तदेव मुखं-प्रधानं येषां ते अग्निहोत्रमुखा वेदा, वेदानां दध्यादेरिव
सत्यवेदादिनवनीतादि आरण्यकमेव प्रधान, यदुक्तं-"नवनीतं यथा दध्नश्चन्दनं मलयादिव । औषधिभ्योऽमृतं यद्वद्वेदेष्वारण्यकं तथा॥१॥"
प्ररूपणम् तत्र च-"सत्यं तपश्च सन्तोषः, क्षमा चारित्रमार्जवम् । श्रद्धा धृतिरहिंसाऽथ, संवरश्च तथा परः॥१॥” इति दशप्रकार एव धर्म उक्तः, तदनुसारि चोक्तरूपमेवाग्निहोत्रमिति, तथा यज्ञः प्रस्तावाद्भावयज्ञः-संयमरूपस्तदर्थी, वेदेन हेतुना स्यन्तिक्षिपन्ति अशुभकर्माणीति वेदसो-योगास्तेषां वेदसां मुखं-उपायः, ते हि सत्ये एव यज्ञार्थिभिः प्रवर्त्तन्त इति, नक्षत्राणां मुखंप्रधानं चन्द्रस्तस्यैव तदधिपतित्वात् , धर्माणां काश्यपः-ऋषभदेवो मुखम् उपायः करणात्मकः, तस्यैवादितस्तत्प्ररूपकत्वात् , Iam२०४॥ तथा चारण्यकम्-"ऋषभ एव भगवान् ब्रह्मा, तेन भगवता ब्रह्मणा स्वयमेव चीर्णानि ब्रह्माणि, यदा च तपसा प्राप्तः परं पदं यद्ब्रह्म केवलं, तदा च ब्रह्मर्षिणा प्रणीतानि, कानि पुनस्तानि ब्रह्माणी"? त्यादि, किंच भवतां ब्रह्माण्डपुराणमेव
50
Jain Education
B
o nal
For Privale & Personal use only
AAdjainelibrary.org