________________
XXXXXXXXXXXX
अस्मिन् पक्षे श्रामण्यापेक्षया इन्द्रियग्रामं निगृह्णाति स्वस्वविषयनिवर्त्तनेन नियमयतीत्येवंशील इन्द्रियग्रामनिग्राही, अत एव मार्गगामी-मुक्तिपथयायी, रीयमाणो-विहरन् ॥२॥९४९॥ वाणारस्या बहिभांगे यदुद्यानं-उपवनं तस्मिन् , शेष स्पष्टम् ॥ ३॥ ९५० ॥
तदा च तत्पुरि यद्वर्त्तते यच्चासौ विधत्ते तदाहअह तेणेव कालेणं, पुरीए तत्थ माहणे। विजयघोसत्ति नामेणं, जन्नं जयइ वेयवी ॥९५१ ॥ अह से तत्थ अणगारे, मासक्खमणपारणे । विजयघोसस्स जन्नंमि, भिक्खम(स्स पा०)हा उवहिए ॥ ९५२॥ समुवट्टियं तहिं संतं, जायगो पडिसेहए। न हु दाहामि ते भिक्खं, भिक्खू ! जायाहि अन्नओ॥ ९५३ ॥ जे य वेयविऊ विप्पा, जन्नमहा य जे दिया। जोइसंगविऊ जे य, जे य धम्माण पारगा ॥९५४ ॥ जे समत्था समुद्धत्तुं, परं अप्पाणमेव य । तेसिमन्नमिणं देयं, भो भिक्खू ! सबकामियं ॥ ९५५ ॥ अथ-वक्तव्यतान्तरोपन्यासे सुब्व्यत्ययात्तस्मिन्नेव काले यदाऽसौ तत्राययौ वेदवित् ॥४॥९५१॥
अथ प्रस्तुतोपन्यासे स जयघोषः, तत्रेति यागे मकारोऽलाक्षणिकः प्राकृतत्वात् दीर्घः ततो भिक्षार्थ उपागतः-प्राप्तः, शेष स्पष्टम् ॥५॥९५२ ॥ तत्र च भिक्षार्थमुपस्थिते मुनौ यदसौ याजकः कृतवांस्तदाह____गाथात्रय, समुपस्थितं-भिक्षार्थमुपागतं याजको-यष्टा विजयघोषनामा प्रतिषेधते-निराकुरुते, यथा नहु-नैव दास्यामि तेतुभ्यं भिक्षा, याचस्व अन्यतः-अस्मन्यतिरेकात् ॥ ६॥ ९५३ ॥
विजयघोषयज्ञपाटके भिक्षार्थ गमनम्
*
Jain Education
a tional
For Privale & Personal use only
A
w.jainelibrary.org