________________
सम्प्रति समितिगुप्त्योः परिशेषमाहएयाओ पंच समिईओ, चरणस्स य पवत्तणे । गुत्ती नियत्तणेऽचुत्ता, असुभत्थेसु य सबसो॥९४६॥
एताः पूर्वोक्ताः पञ्च समितयः चरणस्य-सच्चेष्टायाः, चस्य-अवधारणार्थस्य भिन्नक्रमत्वात् प्रवर्त्तने एव, कोऽर्थः-सच्चेष्टासु प्रवृत्ता| वेव समितयः, तथा गुप्तयो निवर्त्तनेऽप्युक्ताः, सुब्व्यत्ययात् , अशुभार्थेभ्यः अशुभमनोयोगादिभ्यः सर्वेभ्योऽपिशब्दात् चरणप्रवर्तने च, उपलक्षणं चैतत् शुभार्थेभ्यो निवृत्तेः, वाक्काययोर्निव्यापारताया अपि शैलेश्यवस्थायां गुप्तिरूपत्वेनोक्तवान् ॥२६॥९४६॥
अध्ययनार्थमुपसंहरन्नेतदाचरणफलमाहएया पवयणमाया, जे सम्मं आयरे मुणी । सो खिप्पं सव्यसंसारा, विप्पमुच्चइ पंडिए ॥ ९४७॥ त्तिबेमि ।।
॥पवयणमायरं अज्झयणं ॥ २४ ॥ स्पष्टा, नवरं सम्यग-अवैपरीत्येन न तु दम्भादिना ॥ २७ ॥ ९४७॥
॥ इति प्रवचनमात्राध्ययनावचूरिः ॥ २४ ॥ mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm है ॥ इति श्रीउत्तराध्ययने चतुर्विंशतितमस्य प्रवचनमात्रा
ध्ययनस्यावचूरिः समाप्ता ॥
समितिगुप्त्यो
विशेषम्
Sain Education
For Private & Personal use only