________________
चतुर्वि
उत्तरा० अवचूर्णिः
॥२०१॥
गाथाद्वयं, प्राग्वत् व्याख्येयं, नवरं वाग्गुप्तिरुच्चार्या, तथा सत्यावार जीवं जीवमिति वदतः, असत्या जीवमजीवमिति, सत्यामृषा धवाद्याकीर्णेऽपि वने क्वचिदाम्रान् दृष्ट्वा आयवणमेवेदमिति, असत्यामृषा तु विधेहि स्वाध्यायं नैतत्सदृशमन्यत्तपोडस्तीत्यादौ ॥ २२ ॥ ९४२॥
तथा वाचिकः संरम्भः-परव्यापादनक्षमक्षुद्रविद्यादिपरावर्तनसंकल्पसूचको ध्वनिरेवोपचारात्सङ्कल्पशब्दवाच्यः सन् , समारम्भः-परतापकरमन्त्रादिपरिवर्तनं, आरम्भः-अत्यन्तसक्लेशतः प्राणिनां प्राणव्यपरोपणक्षममन्त्रजपनम् ॥ २३ ॥ ९४३ ॥
कायगुप्तिमाह-- ठाणे निसीयणे चेव, तहेव य तुयदृणे । उल्लंघण पल्लंघण, इंदियाण य झुंजणे ॥ ९४४ ॥
संरंभसमारंभे, आरंभे य (प्र० भमि) तहेव य । कायं पवत्तमाणं तु, नियत्तिज जयं जई ॥९४५ ॥ गाथा २, स्थाने-ऊर्ध्वस्थाने निषीदने-उपवेशने, चः तयोरेव विचित्रभेदसमुच्चयार्थः, एवः पूरणे, तथैव च त्वग्वर्त्तने-शयने, उल्लङ्घने-तथाविधनिमित्तत ऊर्श्वभूमिकाद्युत्क्रमणे गर्ताद्यतिक्रमणे वा, प्रलचने-सामान्येन गमने, उभयत्र सूत्रत्वात् सुपोलक् इन्द्रियाणां च-स्पर्शनादीनां योजने-शब्दादिषु विषयेषु व्यापारणे, सर्वत्र च वर्तमान इति शेषः, ततः स्थानादिषु वर्तमानः,
संरम्भोऽभिघाताय दृष्टिमुट्यादिसंस्थानमेव सङ्कल्पसूचकमुपचारात् सङ्कल्पशब्दवाच्यः सन् , समारम्भः परपरितापकरो मुष्ट्याद्य* भिघातः, ततः समाहारस्तस्मिन् , आरम्भे-प्राणिवधात्मनि कार्य प्रवर्त्तमानं निवर्तयेत् ॥ २४-२५ ॥ ९४४-९४५ ॥
शतितममध्ययनं प्रवचनमात्राख्यम्
EXOXO-KOKOKEKOXX
वाक्कायगुप्त्योः खरूपम्
Jain Education inMREShal
For Private & Personal use only
walijainelibrary.org