SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ तत्राद्यां मनोगुप्तिमाह सच्चा तहेव मोसा य, सच्चामोसा तहेव य । चउत्थी असचमोसा य, मणगुत्ती चउविहा ॥ ९४० ॥ संरंभसमारंभे, आरंभे य तहेव य । मणं पवट्टमाणं तु, नियत्तिज जयं जई ॥ ९४९ ॥ गाथा २, सद्भ्योऽर्थात्पदार्थेभ्यो हितो यथावद्विकल्पनं प्राप्तः सत्यो मनोयोगस्तद्विषया मनोगुप्तिरप्युपचारात्सत्या, तथैव मृषा च-तद्विपरीतमनोयोगविषया, सत्यामृषा - उभयात्मकमनोयोगगोचरा, तथैव चः समुच्चये, चतुर्थी असत्यामृषा-उभयस्वभावविकलमनोदलिकरूपमनोयोगगोचरा, उपसंहारमाह-मनोगुप्तिश्चतुर्विधा - उक्तभेदात् चतुर्विधा ॥ २० ॥ ९४० ॥ अस्या एव स्वरूपं निरूपयन् काक्वोपदेष्टुमाह संरम्भः - सङ्कल्पः स च मानसस्तथाऽहं ध्यास्यामि - यथाऽसौ मरिष्यतीत्येवंविधः, समारम्भः - परपीडाकरोच्चाटनादिनिबन्धनं ध्यानं, अनयोः समाहारस्तस्मिन्, आरम्भः - परप्राणापहारक्षममशुभध्यानमेव तस्मिन्, चः समुच्चये, तथैव तेनैवागमप्रतीतेन तत्र मनसोऽसन्निवेशात्मकेन प्रकारेण, चः पूरणे, मनः - चित्तं प्रवर्त्तमानं - व्याप्रियमाणं, तुर्विशेषणे, निवर्त्तयेत् -नियमयेत् यतमानो यतिः, विशेषश्चायमिह - शुभसङ्कल्पेषु मनः प्रवर्त्तयेत् ॥ २१ ॥ ९४१ ॥ वाग्गुप्तिमाह Jain Education International सच्चा तहेव मोसा य, सच्चामोसा तहेव य । चउत्थी असचमोसा य, वयगुत्ती चउधिहा ॥ ९४२ ॥ संरंभसमारंभे, आरंभे य तहेव य । वयं पवत्तमाणं तु, नियत्तिज जयं जई ॥ ९४३ ॥ For Private & Personal Use Only Xox-x-*-*-*-*-* मनोगुप्ति स्वरूपम् www.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy