________________
उत्तरा० अवचूर्णि
चतुर्वि
॥१९९॥
शतितममध्ययन प्रवचनमात्राख्यम्
तद्विषयैषणा च या, वचनव्यत्ययादाहारोपधिशय्यासु, एता उक्तरूपा एषणाः, सूत्रत्वाल्लिङ्गव्यत्ययः, तिस्रः विशोधयेत्-निर्दोषा विदध्यात् ॥ ११॥ ९३१॥ ___ कथं विशोधयेदित्याह
उद्गमश्चोत्पादना चोद्गमोत्पादनं विशोधयेदित्युत्तरेण योगः, कोऽर्थः ?, आधाकर्मादिदोषपरिहारत उद्गमशुद्धां धात्र्यादिदोषपरित्यागाच्चोत्पादनाशुद्धां विदध्यात्, प्रथमायां गवेषणैषणायां, द्वितीयायां ग्रहणैषणायां शोधयेच्छङ्कितादिदोषत्यागादेषणां, ग्रहणकालभाविग्राह्यगतदोषान्वेषणात्मिका, परिभोगैषणायां चतुष्कं-पिण्डशय्यावस्त्रपात्रात्मकं विशोधयेदिति, कोऽर्थः ?-उद्गमादिदोषत्यागात् शुद्धमेव चतुष्कं परिभुञ्जीत, यद्वा सूचकत्वात् सूत्रस्योद्गमदोषान् उत्पादनादोषान् प्रथमायां द्वितीयायां शोधये| देषणादोषान् , परिभोगचतुष्कं संयोजनाप्रमाणाङ्गारधूमकारणात्मकं, अङ्गारधूमयोर्मोहनीयान्तर्गतत्वेनैकतया विवक्षितत्वात् विशोधयेद्, उभयत्र शोधनमुपनयनं, यतमानो यतिः, व्याख्याद्वयेऽपि पुनः क्रियाभिधानमतिशयख्यापनार्थम् ॥ १२॥९३२॥
आदाननिक्षेपसमितिमाहओहोवहोवग्गहियं, भंडयं दुविहं मुणी । गिराहतो निक्खिवंतो य, पउंजिज्ज इमं विहिं ।। ९३३ ॥ चक्खुसा पडिलेहित्ता, पमजिज जयं जई। आदिए निक्खिविता वा, दुहओऽवि समिए सया ॥९३४॥ गाथा २, उपधिशब्दो मध्यनिर्दिष्टत्वादुभयत्र सम्बध्यते, अत ओघोपधिमौपग्रहिकोपधिं च, भाण्डमुपकरणं-रजोहरणदण्डकादि द्विविधं-उक्तभेदात् द्विविधं मुनिगृह्णन् निक्षिपश्च-वचित्स्थापयन् प्रयुञ्जीत-व्यापारयेदिमं वक्ष्यमाणं विधि-न्यायम् ॥१३॥९३३॥
एषणायां । विशोधि
प्रकारः
॥१९९।।
Sain Education de la
For Private & Personal use only
Ko
r telibrary.org