SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥१९८॥ Jain Education Inter द्रव्यतो जीवादिकद्रव्यमाश्रित्यैवं यतना यच्चक्षुषा दृष्टया प्रेक्षेत अवलोकयेत्, प्रक्रमात् जीवादिकद्रव्यं अवलोक्य च संयमात्मविराधनात्यागेन गच्छेदिति भावः १ युगमात्रं च - चतुर्हस्तप्रमाणं प्रस्तावात्क्षेत्रं प्रेक्षेत, इय' क्षेत्रतो यतना २, कालतो यतना यावद् रीयते - यावत्कालं पर्यटति तावत्कालमानेति गम्यं ३, उपयुक्तश्च भावतो - दत्तावधानो यद्यते इयं भावतो यतना ४ ||७|| ||९२७|| उपयुक्तत्वमेव स्पष्टयितुमाह इंदित्थे विवजित्ता, सज्झाय चेव पंचहा । तम्मुत्ती तप्पुरकारे, उवउत्ते रियं रिए ॥ ९२८ ॥ इन्द्रियार्थान्-शब्दादीन् विवर्ज्य - तदनध्यवसानात्परिहृत्यं, स्वाध्याय चैवेति, चः समुच्चये एवकारोऽप्यर्थः, ततोऽयमर्थो न केवलमिन्द्रियार्थान् विवर्ज्य, किन्तु स्वाध्यायं चापि पञ्चधा - वाचनादिभेदैः पञ्चप्रकारं, गत्युपयोगोपघातित्वात्तस्य, ततश्च तस्यामेवेर्यायां मूर्त्तिः - शरीरमर्थात् व्याप्रियमाणा यस्यासौ तन्मूर्त्तिः, तथा तामेव पुरस्करोतितत्रैवोपयुक्ततया प्राधान्येनाङ्गीकुरुत इति तत्पुरस्कारः, अनेन कायमनसोस्तत्परतोकूता, वचसस्तु तत्र व्यापार एव नास्ति, एवमुपयुक्तः सन्नीय रीयते यतिरिति शेषः, सर्वत्र च संयमात्मविराधनैव विपक्षे दोषः ||८|| ९२८ || सम्प्रति भाषासमितिमाह - कोहे य माणे य माया य, लोभे य उवउत्तया ( तहेव य पा० ) । हासे (हास पा० ) भय मोहरिए, विगहासु (विकहा य० पा० ) तहेव य || ९२९ ॥ For Private & Personal Use Only चतुर्विशतितमम ध्ययनं प्रवचनमात्राख्यम् २४ ईर्यासमितिस्वरूपम् ॥१९८॥ www.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy