________________
प्राप्नुयात् यद्वा सुव्यत्ययाच्चतुष्कारणपरिशुद्धया ईर्यया - गत्या रीयेत - गच्छेत् ||४|| ||९२४||
आलम्बनान्येव व्याख्यातुमाह
तत्थ आलंबणं नाणं, दंसणं चरणं तहा । काले य दिवसे बुत्ते, मग्गे उप्पहवजिए || ९२५||
तत्र - तेषु आलम्बनादिषु मध्ये, आलम्बनमालम्ब्य गमनमनुज्ञायते, निरालम्बन' हि नानुज्ञातमेव गमन, तत्किमित्याह - ज्ञान दर्शन' चारित्र, तथाशब्दोऽनुक्तसमुच्चयार्थत्वेन द्वित्वादिभङ्गसूचकः, ततोऽयमर्थः - प्रत्येकं ज्ञानादीनाश्रित्य द्विकादिसंयोगेन वा गमनमनुज्ञातमिति १, कालच प्रस्तावादीर्याया दिवस उक्तस्तीर्थकृद्भिरिति शेषः, रात्रौ ह्यचक्षुर्विषयत्वेन पुष्टतरालम्बनं विना गमनस्याननुज्ञातत्वात् २, मार्ग इह - सामान्येन पन्थाः स उत्पथेन उन्मार्गेण वर्जितो -रहितः उत्पथवर्जितः, उक्त इति योगः, उत्पथे हि व्रजत आत्मसंयमविराधनादिदोषाः ३ ||५|| || ९२५ ।।
Jain Education International
यतनाद्वारमाह-
दव्वओ खित्तओ चैव, कालओ भावओ तहा । जयणा चउव्विहा वृत्ता, तं मे कित्तयओ सुण ॥९२६ || सुगमा, नवरं तां चतुर्विधयतनां मे कीर्त्तयतः - सम्यक् स्वरूपाभिधानेन कथयतः शृणु-आकर्णय, शिष्येति गम्यम् ||६|| || ९२६ ॥
यथाप्रतिज्ञातमेवाह
दव्वओ चक्खुसा पेहे, जुगमित्तं च खित्तओ । कालओ जाव रीइजा, उवउत्तो य भावओ ॥ ९२७||
For Private & Personal Use Only
ईर्यासमितिस्वरूपम्
www.jainelibrary.org