SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्गि: ॥१९७॥ Jain Education Intern एयाओ अट्ठ समिईओ, समासेण वियाहिया । दुवालसंगं जिणक्खायं, मायं जत्थ उ पत्रयणं ॥ ९२३ ॥ एता अनन्तरोक्ताभिधानाः अष्ट समितयः, गुप्तीनामपि सम्यग् - सर्ववित्प्रवचनानुसारितया इतयः - आत्मनश्चेष्टाः समितय इत्यन्वर्थेन समितिशब्दवाच्यत्वमस्तीत्येवमुपन्यासो, यत्तु भेदेनोपादानं तत्समितीनां प्रविचाराप्रविचाररूपत्वेन गुप्तीनां अप्रविचारात्मकत्वेनान्योऽन्यं कथञ्चिद्भेदख्यापनार्थ समासेन - सर्वागमसङ्ग्रहेण व्याख्याताः, अत एवाहद्वादशाङ्गं जिनाख्यातं, उत्तरत्र तोरेवार्थस्य भिन्नक्रमत्वात् मातमेव अन्तर्भूतमेव यत्र- यासु प्रवचनं - आगमः, तथाहिईयासमितौ आद्यं व्रतमवतरति, तद्वृतिकल्पानि च शेपव्रतानि तत्रैवान्तर्भवन्ति तेषु च न तदस्ति न समवतरति, यत उक्तं- “पढमंमि सव्वजीवा, बीए चरिमे अ सव्वदव्वाई । सेसा महव्वया खलु तदिक्कदेसेण णायव्वा ॥ १॥" इत्यर्थः सर्वमपि प्रवचनं मातमुच्यते, इह भाषासमितिः- सावद्यवचनपरिहारतो निरवद्यवचोभाषणात्मिका, तथा च वचनपर्याय: सर्वोऽप्याक्षिप्त एव न च तद्बहिर्भूतं द्वादशाङ्गमस्ति, अतस्तथापि मातमुच्यते, एवमेषणाद्यास्वपि स्वधिया भावनीयं, यद्वा सर्वा अप्यमूचारित्ररूपाः, ज्ञानदर्शनाविनाभावि च चारित्रं, न चैतत्त्रयातिरिक्तमन्यदर्थतो द्वादशाङ्गमिति सर्वास्वप्येतासु प्रवचन मातमुच्यते ||३|| ||९२३|| तत्रेर्यासमितिस्वरूपमाह - आलंबणेणं कालेणं, मग्गेण जयगाइ य । चउकारणपरिसुद्ध, संजए ईरियं रिए ॥९२४॥ गाथा: ४, आलस्यनेनेत्यादिकारणैरेभिरेव परिशुद्धां - निर्दोषां संयतो-यतिरीय गतिं रीयेत - अनुष्ठानविषयतया For Private & Personal Use Only चतुर्वि शतितमम ध्ययनं प्रवचनमात्राख्यम् २४ अष्टप्रवचनमातरि द्वादशाङ्गप्रवचनम् ॥१९७॥ www.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy